पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रुद्र

दक्षप्रजापतेः यज्ञे दक्षेण रुद्रस्य उपेक्षा, सतीनाशः एवं तदनन्तरं रुद्रगणेभ्यः दक्षयज्ञस्य नाशस्य आख्यानं सर्वविदितं अस्ति। शिवपुराणे > ७.१.१९.१३ कथनमस्ति यत् दक्षयज्ञे एकादशरुद्राणां प्रतिष्ठा आसीत्, न एकलरुद्रस्य। एकादशरुद्राः के भवन्ति, तेषां का प्रकृतिरस्ति इत्यादयः प्रश्नाः सन्ति। पुराणेषु कथनमस्ति यत् एकरुद्रः एव एकादशरुद्राणां सृष्टिं करोति ये जरामरणरहिताः सन्ति। एकादशरुद्राणां नामानि स्थले स्थले भिन्नाः सन्ति, किन्तु दशम एवं एकादशं रुद्रयोः नामयोः एक्यं अस्ति तौ अजैकपादः एवं अहिर्बुध्न्यौ स्तः। अधोदर्शितायां वेद्यायां यः सभ्यः अग्निखरः अस्ति, तस्य देवता अजैकपादः अस्ति। आवसथ्यअग्न्याः देवता अहिर्बुध्न्यः अस्ति। स्कन्दपुराण > १.१.८.१०० अनुसारेण हनूमानः अहिर्बुध्न्यस्य स्वरूपः अस्ति। सामान्यरूपेण एतौ खरौ निष्क्रियौ स्तः। यदा आभिचारादिकृत्यसम्पादनस्य आवश्यकता भवति, तदा तेषां प्रज्वलनं कुर्वन्ति। यथा > आवसथ्य शब्दोपरि टिप्पण्यां कथितमस्ति, सभ्याग्नौ स्थाने यजमानः द्यूतेन धनस्य सम्पादनं करोति एवं आवसथ्ये तेन धनेन सम्पादितेन अन्नेन ब्राह्मणेभ्यः भोजनं ददाति। अस्य कथनोपरि अयं कल्पयितुं शक्यन्ते। यदा कामनां कुर्वन्ति, अस्मिन् संसारे तस्याः सम्पादनस्य शक्तिः द्यूते, चांसमध्ये विलीना भवति। अतएव, यदि कामना अस्ति, तस्याः पूर्त्यै रुद्राणां साहाय्यस्य अपि आवश्यकता अस्ति। आश्विन् पूर्णिमायां प्रातःकाले जपनीयं मन्त्रं अस्ति कामो अकार्षीत् मन्युः अकार्षीत्। नाहं कर्ता नाहं कारयिता। कामः कर्ता कामः कारयिता। मन्युः कर्ता मन्युः कारयिता। अतएव, कामनापूर्त्यर्थं शक्त्याः सम्पादनं मन्युना, क्रोधेन करणीयमस्ति। एकादशरुद्रेषु मन्युः शक्त्याः एकः स्रोतः अस्ति। अन्यानां स्रोतसां नामान्यपि उल्लिखिताः सन्ति।

 

उल्लेखः अस्ति यत् यदा रुद्रस्य धनुषस्य ज्याभंगः भवति, तदा तेन कारणेन शिरस्य कर्तनं भवति। तत् शिरः प्रवर्ग्यऊर्जासु रूपांतरितः भवति। अयं प्रतीयते यत् ये एकादशरुद्राः सन्ति, तेभिः यस्य ऊर्जायाः संपादनं भवति, तत् सर्वं प्रवर्ग्यसंज्ञका ऊर्जा अस्ति। ब्रह्मौदनसंज्ञकस्य ऊर्जायाः संपादनं केन प्रकारेण भविष्यति, अन्वेषणीयः।

 

संदर्भाः

यज्ञेन वै देवा दिवमुपोदक्रामन्नथ यो ऽयं देवः ( रुद्रः) पशूनामीष्टे स इहाहीयत तस्माद्वास्तव्य इत्याहुर्वास्तौ हि तदहीयत । माश १, ,. १ ।

तृतीयसवनं वै स्विष्टकृद्वैश्वदेवं वै तृतीयसवनं..... वास्तु वा एतद्यज्ञस्य यत्स्विष्टकृदवीर्यं वै वास्त्विन्द्रियं वीर्यं त्रिष्टुबिन्द्रियमेवैतद्वीर्यं वास्तौ स्विष्टकृति दधाति माश १.७.३.१७

उत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य ( रुद्रस्य) दिक् । माश , ,, २०

ब्रह्मणः प्राशित्रहरणम् -- योऽयं देवः पशूनामीष्टेऽतिसंधं वा अयं चरति य इत्थं स्वां दुहितरमस्माकं स्वसारं करोति विध्येममिति तं रुद्रोऽभ्यायत्य विव्याध तस्य सामि रेतः प्रचस्कन्द। माश , ,,

त्र्यम्बकहविर्यागः -- रुद्रस्य हीषुस्तस्माद्रौद्रा भवन्त्येककपाला भवन्त्येकदेवत्या असन्निति तस्मादेककपाला भवन्ति - ...[]

त्र्यम्बकहविर्यागः -- एतद्ध वा ऽ अस्य ( रुद्रस्य) जान्धितं प्रज्ञातमवसानं यच्चतुष्पथम् । माश , ..

अथ गौः । प्राणमेवैतयात्मनस्त्रायते प्राणो हि गौरन्नं हि गौरन्नं हि प्राणस्तां रुद्राय होत्रेऽददात् - माश ४.३.४.२५,

राजसूये चातुर्मासम् -- ऽथ यद्रौद्रो गावेधुकश्चरुर्भवति यो वै रुद्रः सोऽग्निः सोऽग्नेस्तृतीयो भागोऽथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको भवत्य (रुद्रः) । माश ,, ,१३.

दीक्षणीययागाः अथ रुद्राय पशुपतये । रौद्रं गावेधुकं चरुं निर्वपति तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवत्यथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको भवति - ...[]

तमब्रवीद्रुद्रोऽसीति । तद्यदस्य तन्नामाकरोदग्निस्तद्रूपमभवदग्निर्वै रुद्रो यदरोदीत्तस्माद्रुद्रः(तमब्रवीद् सर्वोसि, पशुपतिरसि, उग्रोसि, .....कुमारो नवमः) -  माश , ,,१०

शतरुद्रियम् -- प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता सहस्राणीमांल्लोकाननुप्राविशंस्तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः- माश ९.१.१.६

तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः । सो ऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः । माश ९,, , ६ ।

गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता ( रुद्रः) विस्रस्ताशयत्ततो गवेधुकाः समभवन्त्स्वेनैवैनम् ( रुद्रम्) एतद्भागेन स्वेन रसेन प्रीणाति । माश , , ,

शतरुद्रीयम् -- अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति- माश ९.१.१.९

एतस्य वै देवस्य ( रुद्रस्य) आशयादर्कः समभवत्स्वेनैवैनम् ( रुद्रम्) एतद्भागेन स्वेन रसेन प्रीणाति ( यजमानः) । माश ,, ,

कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्मान्मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति । तद्यद्रोदयन्ति तस्माद्रुद्रा इति । माश ११, , .

एतस्यै वा एतदघलायै देवतायै रूपम्। यदेते घोरा आरण्याः पशवः। यदेतेषां पशूनां लोमभिः पयोग्रहान् श्रीणीयात्। रुद्रस्यास्ये पशूनपिद्ध्यात्। अपशुर्यजमानः स्यात्। यन्न श्रीणीयात्। अनवरुद्धा अस्य पशवः स्युः। रुद्रो हि पशूनामीष्टे इति सुराग्रहानेवैतेषां पशूनां लोमभिः श्रीणाति। सुरायामेव तत् रौद्रं दधाति। तस्मात् सुरां पीत्वा रौद्रमनाः। अथो आरण्येष्वेव पशुषु रुद्रस्य हेतिं दधाति। ग्राम्याणां पशूनामहिंसायै। । माश १२,,, २०

गोमृगकण्ठेन प्रथमामाहुतिं जुहोति पशवो वै गोमृगा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते ।३। अश्वशफेन द्वितीयामाहुतिं जुहोति पशवो वा एकशफा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते  । अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति आयास्या वै प्रजा रुद्रः स्विष्टकृत्प्रजा एव रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः प्रजा अभिमन्यते माश १३...[]

 

 

चित्त संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपति स्थूलहृदयेनाग्नि हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेन । तैसं १ ४, ३६ १, तैआ , २१,

पुनराधानविधानम् -- ते देवा विजयम् उपयन्तो ऽग्नौ वामं वसु सं न्य् अदधत । ...... तद् देवा विजित्यावरुरुत्समाना अन्व् आयन् .....यदरोदीत् तद्रुद्रस्य रुद्रत्वम् । तैसं ,,, (तु.)

उज्जिति मन्त्राः -- रुद्राश् चतुर्दशाक्षरेण चतुर्दश स्तोमम् उद् अजयन् । - तैसं १.७.११.२   

अभिषेकः--रुद्र यत्ते क्रयी (क्रिवि [काठ.]) तस्मै हुतमसि । तैसं , ८, १४, २. काठ १५, ; तै १, .. ६ ।

ब्रह्मवर्चसकामादीनां पशुविधिः-- वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् ....यल्लोहितं परापतत् तद्रुद्र उपागृह्णात् सा रौद्री रोहिणी वशा ऽभवत् । तैसं ,, ,

अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः स शिशातु ॥। तैसं ,, ११, ; मै ४, १२, , काठ १०.१२ ।

यद् अग्नये स्विष्टकृते ऽवद्यति भागधेयेनैव तद् रुद्र सम् अर्धयति सकृत्सकृद् अव द्यति सकृद् इव हि रुद्रः । उत्तरार्धाद् अव द्यत्य् एषा वै रुद्रस्य
दिक् स्वायाम् एव दिशि रुद्रं निरवदयते  - तैसं २.६.६.५

उपांशुयाज स्विष्टकृतौ-- सकृत्सकृद् अव द्यति सकृद् इव हि रुद्रः । उत्तरार्धाद् अव द्यत्य् एषा वै रुद्रस्य  दिक् स्वायाम् एव दिशि रुद्रं निरवदयते। तैसं ,, ,

उपांशुयाज स्विष्टकृतौ -- एष रुद्रो यद् अग्निः । यत् पूर्वा आहुतीर् अभि जुहुयाद् रुद्राय पशून् अपि दध्यात् । अपशुर् यजमानः स्यात् । अतिहाय पूर्वा आहुतीर् जुहोति पशूनां गोपीथाय - तैसं २.६.६.६, ३.५.५.२, तै १.१.५.८, १.१.६.६, १.१.८.४, १.४.३.६

इडाप्राशित्रभक्षौ-- देवा वै यज्ञाद्रुद्रमन्तरायन्त्स यज्ञमविध्यत् । देवा अभि सम् अगच्छन्त कल्पतां न इदम् इति ते ऽब्रुवन्त् स्विष्टं वै न इदम् भविष्यति यद् इम राधयिष्याम इति तत् स्विष्टकृतः स्विष्टकृत्त्वम् । तस्याविद्धं निः  अकृन्तन् यवेन सम्मितं तस्माद् यवमात्रम् अव द्येद् - तैसं , .,

अदाभ्यांशुग्रह मन्त्राः -- वसवस् त्वा प्र वृहन्तु गायत्रेण छन्दसाग्नेः प्रियम् पाथ उपेहि रुद्रास् त्वा प्र वृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथ उपेहि । आदित्यास् त्वा प्र वृहन्तु जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथ उपेहि -  तैसं ३.३.३.१  

एकादश रुद्रा एकादशाक्षरा त्रिष्टुप् । तैसं ३...७ ।

प्रयास्यतो अग्निहोत्रिणः अग्निसमारोपणम् -- वास्तोष् पते प्रति जानीह्य् अस्मान्त् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥......रुद्रः खलु वै वास्तोष्पतिर् यद् अहुत्वा वास्तोष्पतीयम् प्रयायाद् रुद्र एनम् भूत्वाग्निर् अनूत्थाय हन्याद्  । .... दक्षिणो युक्तो भवति सव्यो ऽयुक्तः । अथ वास्तोष्पतीयं जुहोत्य् -  तैसं , ४ १० ३

स्तोमभागा इष्टकाः-- प्रकेतो ऽ सि रुद्रेभ्यस्त्वा रुद्रान् जिन्व । तैसं ,, , , काठ ३७,१७ ।

नाकसदा इष्टकाः -- विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्या श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै - तैसं ४.४.२.१, मै २.८.९ ३६ ५;

यज्ञतन्वाख्या इष्टकाः-- रुद्र आहुतः ( सोमः) । तैसं , ,,  

शतरुद्रीयहोमः-- नमस् ते रुद्र मन्यव उतो त इषवे नमः । नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥ या त इषुः शिवतमा शिवम् बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥ या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी । तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥ याम् इषुं गिरिशन्त हस्ते   बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ - तैसं ४.५.१.१

शतरुद्रीयहोमः-- परि णो ( वो [ काठ. .]) रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृडय ॥ । तैसं ,, १०, , काठ १, ; क १.१ ।

शतरुद्रीयहोमः--ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः । ये (रुद्राः) अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् तेषां सहस्रयोजने ऽव धन्वानि तन्मसि । तैसं , ,११, -२ ।

अश्वमेधसम्बन्धि प्रयाजयाज्याभिधानम्--आदित्यैर् नो भारती वष्टु यज्ञ सरस्वती सह रुद्रैर् न आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥- तैसं ५ १, ११, ३, मै ३, १६, , काठ ४६,२ ।

क्षेत्रकर्षणम् -- एतावन्तो वै पशवो द्विपादश् च चतुष्पादश् च तान् यत् प्राच उत्सृजेद् रुद्रायापि दध्यात् । यद् दक्षिणा पितृभ्यो नि धुवेत् । यत् प्रतीचो रक्षासि हन्युः । उदीच उत् सृजति । एषा वै देवमनुष्याणा शान्ता दिक् । तैसं , , ,

शतरुद्रीयहोमाभिधानम् -- रुद्रो वा एष यद् अग्निः स एतर्हि जातो यर्हि सर्वश् चितः स यथा वत्सो जात स्तनम् प्रेप्सत्य् एवं वा एष एतर्हि भागधेयम् प्रेप्सति तस्मै यद् आहुतिं न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेत् - तैसं ५.४.३.१, ५.४.१०.५;

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु । तैसं ,,,

आहुतिभागा वा अन्ये रुद्रा हविर्भागा अन्ये । शतरुद्रीय हुत्वा गावीधुकं चरुम् एतेन यजुषा चरमायाम् इष्टकायां नि दध्याद् -  तैसं ,,,

रुद्राणां द्वितीया (कीकसा) । तैसं ५,, १७,; मै ३,१५, , काठ ५३,७ ।

रुद्रस्य षष्ठी (विचलस्स्कन्धः [काठ ५३, ]) । तैसं ५,,२२, , काठ ५३,११ ।

अरुणया सोमक्रयप्रकाराभिधानम्-- रुद्रस् त्वाऽऽ वर्तयत्वित्याह रुद्रो वै क्रूरः  देवानाम् । तम् एवास्यै परस्ताद् दधात्य् आवृत्त्यै क्रूरम् इव वा एतत् करोति यद् रुद्रस्य कीर्तयति। तैसं ,, ,-८ ।

आदित्यग्रहकथनम् देवा वै यज्ञात्  रुद्रम् अन्तर् आयन् । स आदित्यान् अन्वाक्रमत ते द्विदेवत्यान् प्रापद्यन्त तान् न प्रति प्रायच्छन् तस्माद् अपि वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति तस्माद् द्विदेवत्येभ्य आदित्यो निर् गृह्यते । तैसं ,, ,

गर्गत्रिरात्राभिधानम् -- स उक्थ्येन रुद्रान् अयाजयत् ते ऽन्तरिक्षम् अजयन् तच् चाददुः ...... तद् अन्तरिक्षम्   व्यवैर्यत तस्माद् रुद्रा घातुका अनायतना हि । तैसं , , ,

 

तस्य ( अरुणकेतुकस्याग्नेः) इन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनत् स्वयं तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्यो ऽ भवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । तैआ ,,

वारादं जनयाग्रेऽग्निम् । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( ) तैआ १.१२.१

ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथासिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः पराङ्गताः । तैआ १ १२,

अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमानानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । व्यवदातानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भ्रानि । रजतानाँ रुद्राणां स्थाने स्वतेजसा भानि । परुषाणां रुद्राणाँ स्थाने स्वतेजसा भानि । श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । अतिलोहितानाशं रुद्राणां स्थाने स्वतेजसा भानि । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि ( ) । अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । वैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि ।। प्रभ्राजमानीनां रुद्राणीनां... वैद्युतीनां रुद्राणीनां'' ..... रूपाणि वो मिथुनम् । तैआ ,१७,

इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् ।- तैआ १.२०.१  

पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता, इति तैआ ३.२.३

वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । - तैआ ३.९.१

सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् ( ) - तैआ ३.१०.२

अर्हन् बिभर्षि सायकानि धन्व । अर्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवं । न वा ओजीयो रुद्र त्वदस्ति । तै. ,,१७

अग्निष् ट्वा वसुभिः पुरस्ताद्रो चयतु गायत्रेण छन्दसा स मा रुचितो रोचय इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा स मा रुचितो रोचय वरुणस्त्वादित्यैः पश्चाद्रो चयतु जागतेन छन्दसा स मा रुचितो रोचय .....तैआ ४.६.३

निर्ऋति- तैआ ४.२०.२

यत्प्राङ् पिन्वते तद्देवानाम् यद्दक्षिणा तत्पितृणाम् यत्प्रत्यक् तन्मनुष्यानाम् यदुदङ् तद्रुद्रा णाम् प्राञ्चमुदञ्चं पिन्वयति देवत्राकः - तैआ ५.८.५

रुद्राय रुद्र होत्रे स्वाहेत्याह रुद्रमेव भागधेयेन समर्धयति सर्वतः समनक्ति सर्वत एव रुद्रं निरवदयते उदञ्चं निरस्यति एषा वै रुद्रस्य दिक् स्वायामेव दिशि रुद्रं निरवदयते - तैआ ५.८.९  

सर्वो वै रुद्रः  । पुरुषो वै रुद्रः । तैआ १०, १६, १ ।

तैआ १०.३१.१

 

तं वसवोऽष्टाकपालेन प्रातःसवनेऽभिषज्यन् रुद्रा एकादशकपालेन माध्यन्दिने सवने विश्वे देवा द्वादशकपालेन तृतीयसवने - तै १.५.११.३

राजसूय त्र्यम्बकहविः -- प्रतिपूरुषमेककपालान्निर्वपति जाता एव प्रजा रुद्रा न्निरवदयते एकमतिरिक्तम् जनिष्यमाणा एव प्रजा रुद्रा न्निरवदयते एककपाला भवन्ति एकधैव रुद्रं निरवदयते नाभिघारयति यदभिघारयेत् अन्तरवचारिण रुद्रं कुर्यात् एकोल्मुकेन यन्ति तद्धि रुद्रस्य भागधेयम् इमां दिशं यन्ति एषा वै रुद्रस्य दिक् तै १.६.१०.४

एष ते रुद्र भागः सह स्वस्राम्बिकया इत्याह शरद्वा अस्याम्बिका स्वसा तया वा एष हिनस्ति हिनस्ति तयैवैन सह शमयति तै १.६.१०.४

तै १.७.४.१

चतुरो मासो दीक्षितस्स्याच्चतुरो वा एतं मासो वसवोऽबिभरुस्ते पृथिवीमजयन् गायत्रीं छन्दोऽष्टौ रुद्रास्तेऽन्तरिक्षमाजयँस्त्रिष्टुभं छन्दो । काठ २१.क ३१,२०

राजसूये अभिषेकः-- उच्छेषणेन जुहोति उच्छेषणभागो वै रुद्रः । तै ,,,

उदङ्परेत्याग्नीद्ध्रे जुहोति एषा वै रुद्र स्य दिक् स्वायामेव दिशि रुद्रं निरवदयते रुद्र यत्ते क्रयी परं नामेत्याह यद्वा अस्य क्रयी परं नाम तेन वा एष हिनस्ति हिनस्ति तेनैवैन सह शमयति - तै १.७.८.६

तै २.२.५.२

तै २.६.१९.१ 

रुद्रो वा अकामयत पशुमान्त्स्यामिति स एत रुद्रायार्द्रायै प्रैयंगवं चरुं पयसि निरवपत् ततो वै स पशुमानभवत् - तै ३.१.४.४

सँ स्रावभागाः स्थेत्याह वसवो वै रुद्रा आदित्याः सँ स्रावभागाः - तै ३.३.९.७

यत्तण्डुलैर्जुहोति वसूनेव तत्प्रीणाति पृथुकैर्जुहोति रुद्राणां वा एतद्रूपम् यत्पृथुकाः यत्पृथुकैर्जुहोति रुद्रानेव तत्प्रीणाति लाजैर्जुहोति आदित्यानां वा एतद्रू पम् यल्लाजाः - तै ३.८.१४.३

 गोमृगकण्ठेन प्रथमामाहुतिं जुहोति   पशवो वै गोमृगः   रुद्रो ऽग्निः स्विष्टकृत्    रुद्रादेव पशूनन्तर्दधाति    अथो यत्रैषाहुतिर्हूयते    न तत्र रुद्रः पशूनभिमन्यते  अश्वशफेन द्वितीयामाहुतिं जुहोति   पशवो वा एकशफम्    रुद्रो ऽग्निः स्विष्टकृत्   रुद्रा देव पशूनन्तर्दधाति    अथो यत्रैषाहुतिर्हूयते    तत्र रुद्रः पशूनभिमन्यते    अयस्मयेन कमण्डलुना तृतीयामाहुतिं जुहोत्यायास्यो वै प्रजाः    रुद्रो ऽग्निः स्विष्टकृत्   रुद्रादेव प्रजा अन्तर्दधाति   अथो यत्रैषाहुतिर्हूयते    न तत्र रुद्रः प्रजा अभिमन्यते   तै ३.९.११.३

एतद्वा अस्य संवत्सरोऽभीष्टोऽभूदभीष्टा ऋतवो , अथ वा अस्य रुद्रा अनभीष्टा , यदेते त्र्यम्बकास्तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्ति मै १.१०.२०

एकोल्मुकं हि रुद्राणां... धूपायद्धि रुद्राणां. पराञ्चमेव रुद्रं हरन्ति । मै . १०.२०

एष ( रुद्रः) हि देवानां क्रूरतमः । मै ३, , १ ।

गिरिर्वै रुद्रस्य योनिस्तत एषो ऽ भ्यवचरति । काठ ३६,१४ ।

घातुको ऽ स्य ( यजमानस्य) रुद्रः पशून् भवति । काठ ८,६ ।

अग्निमारुतशस्त्रम् -- रौद्रीम् शंसति । घोरो वै रुद्रः । भैषज्यम् एव तत् कुरुते ।......मारुतम् शंसति । एतत् पूगो वै रुद्रः । तद् एनम् स्वेन पूगेन समर्धयति  कौ १६,

चतुश्चत्वारिंशद्रुद्रा देवाः .... त्रिष्टुब् रुद्रेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे।। जै ,३५

तां ( इषुं रुद्रः) व्यसृजत् तया पुरस्समरुजद्यत् समरुजत् तद्रुद्रस्य रुद्रत्वम् । काठ २५, ; क ३८,४ ।

तिस्रो ऽरुणा दित्यौह्यस्ता रुद्राणाम् । काठ ४९, ५ ।

दश पुरुषे प्राणा इति होवाच । आत्मैकादशः । ते यदोत्क्रामन्तो यन्त्यथ रोदयन्ति । तस्माद्रुद्रा इति । ज ,७७

पञ्चदशेन स्तोमेन त्रिष्टुभमभ्यक्रन्दत् । ततो रुद्रानसृजतेन्द्रमुखान् । जै ,३८१

प्रकेतेन रुद्रेभ्यो रुद्रान् जिन्व । मै ,,

प्रजापतिर्वै रुद्रं यज्ञान्निरभजत् । गो २..२ ।

भगस्स्थ भगस्य वो लप्सीयैष ते रुद्र भागस्तेनावसेन परो मूजवतो ऽ तीहि कृत्तिवासाः पिनाकहस्तो ऽ वततधन्वा । काठ ९. ७ ।

यदुद्दिशति तेन रुद्रं शमयति । काठ ६ ५ ।

यो एवेषुस्त्रिकाण्डा ( रुद्रस्य) सो एवेषुस्त्रिकाण्डा । ऐ ३ ३३ ।

रुद्रं  रोराभ्याम् ( प्रीणामि) । मै ३, १५ ३ ।

रुद्रं वै देवा यज्ञान्निरभजन् स देवानायतयाभिपर्यावर्तत । काठ २१, , क ३१,२१ ।

रुद्र मृडानार्भव मृड धूर्ते  एतानि वै रुद्रस्य क्रूराणि नामानि । तैरेव (रुद्रः) प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानः । काठ ६, ; क ४, ६ ।

रुद्र यत्ते गिरिपरं नामेति, रुद्रमेवास्मात् ( यजमानात्?) तेन निरवदयते'' यमेष्टमसि स्वाहेति  -मृत्युमेवास्मात्तेन निरवदयते । मै ४,, .

रुद्रस्य गां प्रतिजगृहुषश्चतुर्थमिन्द्रियस्यापाक्रामत् । काठ ९,१२ ।

अथोत्तरं भागमात्मनो ऽ तिहरञ्जपति रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा ऽऽरोहन्तु स्व राज्यायेति, स्वाराज्यं ह वै राज्यादधितरामिव । शांआ १.७ ।

रुद्रा वृत्रहणा () पुरन्दरा ( ) । काठसंक ६२.२ ।

अथ यत्र ( अग्निः) संप्रज्वलितो भवत्यवरेणेव वर्षिमाणं तद्ध रुद्रो भवति । काश ३, .

रुद्रा वैराज्याय ( आदित्यमभ्यषिञ्चन्त) । जै २,२५ ।

रुद्रा वैराज्याय ( वरुणमभ्यषिञ्चन्त) । जै ३, १५२; .६ ८ ।

रुद्राश्चतुर्दशाक्षरया चतुर्दशं मासमुदजयन् । मै १, ११, १० ।

रुद्रास्त्वा त्रैष्टुभेन छन्दसा संमृजन्तु । तां १,, ७ ।

रुद्रेभिर्देवेभिर्देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि ग्रीष्मेण । काठ ४१,

रुद्रेभ्यो रुरून् ( आलभते) । मै ३, १४,९ ।

पशुष्ठा न्युप्तो रुद्रो विचीयमानश्छन्दाँसि मीयमानो वरुण उपनद्धः पूषा सोमक्रयण्यां भगः पण्यमानोऽसुरः क्रीत (सोमः) । काठ ३४, १४

रुद्रो वै देवानां क्षोदिष्ठः । क ३७,४ ।

रुद्रो वै पुरुषः (स्विष्टकृत् कौ.) । कौ ३,,; , जै. , ११३ ।

अग्निचित्यां दीक्षणीयेष्टिः-- रुद्रो ह वा एष देवानामशान्तः सञ्चितो भवति तमेवैतच्छमयति । कौ १९,

यद्देवत्यस्सोमस्तद्देवत्यः पशुर्वैश्वदेव उन्नीयमान ऐन्द्राग्न उन्नीतो रुद्रो हूयमानो वाग्घुतो मारुतो गणोऽभ्यावृत्तो मित्रः प्रतिख्यात इन्द्र आसन्नो । काठ ३४, १६

कृष्णग्रीवा आग्नेयाः, शितिभ्रुवो वसूनां , रोहिता रुद्राणां , श्वेता अवरोकिण आदित्यानां , नभोरूपाः पार्जन्याः ॥। मै , १३,

वसूनां भागो ऽसि रुद्राणामाधिपत्यं चतुष्पात् स्पृतं चतुर्विंशः स्तोमः । मै २,, ; तै ४,, . -२ ।

सोऽधस्ताद्दिशमन्वावर्त्तते रुद्राय स्वाहा पशुपतये स्वाहा शूलपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति। ष ,११

श्येतः श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये । म ३ १३ ४ ।

सप्ताहानि रुद्रः पशूनामीशे (रक्षांसि पराचीनं घ्नन्ति [ काठ]) । काठ २५.; क ३८.४ ।

रुद्रं वै देवा यज्ञादन्तरायन् , तानायतयाभिपर्यावर्तत, तस्माद्वा अबिभयु, स्ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतं शतरुद्रियमपश्यत्, तेनैनं अशमयत्, । मै ,,

( रुद्रः) यज्ञमभ्यायम्याविध्यत् । गो २,, (तु. तैसं २,, , )

देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश्चतुर्धा व्युदक्रामन् , अग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यै। मै ,,; माश ३, ,, १ ।

सो ऽ रोदीत्, तद्वा अस्यैतन्नाम रुद्र इति । मै ४, , १२ ।।

अग्नये रुद्रवतेऽष्टाकपालं निर्वपेद्यः कामयेत रुद्रायास्य पशूनपिदध्याम् इति , अग्निर्वै रुद्रो , रुद्रायैवास्य पशूनपिदधाति मै २.१.१०, काठ १०.६, २४.९, क ३५.५, माश ५.३.१.१०, ६.१.३.१०

२३८ माश १.७.३.८,

अग्नी रुद्रो , यद् बृहत्या वषट्कुर्याद् रुद्रायास्य पशूनपिदध्यात् , अथो बृहतीं ह्ययातयाम्नीं पशवोऽनुप्रजायन्ते - मै २.३.७, ३.१.३, ३.७.७, ३.९.१, ४.२.१०, ४.६.९,

 

४४६ मै १.६.७, १.६.११, ऐ २.५;

४५६ तैसं २.२.२.३ ,

५१५. मै ४.३.४

५५९ मै १.४.१३;

६३० तैसं ३.४.१०.३ ,

६७० माश ५.२.४.१३ ,

६७४ काठ ८.८, २४.६, क ४२.६, तां १२.४.२४,;

सौमारौद्रं चरुं -- सोमो वै रेतोधा रुद्रोऽग्निस्स प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजनयति- काठ ११.५.

अग्निरूप- माश ६.१.३.१८,

यर्ह्ययं देवाः प्रजा अभिमन्येत सजूर्जातवेदो दिवा पृथिव्या हविषो वीहि स्वाहेति द्वादश रात्रीग्निहोत्रं जुहुयाद्या वा अग्नेर्जातवेदास्तनूस्तयैष प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानस्तामेवास्य प्रीणाति- काठ ६.७, क ४.६ ५३;

अग्निर् होता , अश्विनाध्वर्यू , रुद्रो अग्नीत् , बृहस्पतिरुपवक्ता - मै १.९.१ , काठ ९.८, क ८.११   

अन्तरिक्षं रुद्राः अजयन्-   काठसं ५३;

मै २.९.९, काठ १७.१६, क २७.६, ११ ५;

जै २.४१

रुद्राः पितामहा अन्तरिक्षाधिपतयः काठसंक १४१.१४ १४५ अन्तरिक्षाधिपति-;

मै २.९.९ अन्न- १४८ ,

माश २.६.२.९ अम्बिका- ,

मै १.१०.४ २;

;

मै १.१०.२० ५.

काठ ३६.१४ ६;

त्वम् अग्ने रुद्रो असुरो महो दिवस् त्व मारुतम् पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥ आ वो राजानम् अध्वरस्य रुद्र होतार सत्ययज रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥- तैसं १.३.१४.१, तै ३.११.२.१ असुर- ४०;

आखु- १ मै १.१०.४, १.१०.२०;

तैसं १.८.६.१ २,

आदित्य- २८१ तैसं ४.४.११.२, काठ २२.५;

 

प्रजा वै पशवोँशवो , रुद्र आहवनीयो , यदग्रेण प्रणयेद् रुद्रायास्य पशूनपिदध्यात् , पश्चादेव प्राङ् प्रणीयः पशूनां गोपीथाय- मै ३.९.१

उदच् , ञ्च्- ३ मै १.८.५ ,

तैसं ५.४.३.३ ४,,

तैआ ५.८.५ ८,

कौ ५.७ १२,

काठ २०.३ १३,

ओषधि- मै १.८.४ ४३,

काठ ६.५ ७२;

गाणपत्य- तैसं ४.१.२.२, मै २.७.२, ३.१.३ , काठ १६.१ ;

इति गिरिर्वै रुद्रस्य योनिः , अतो वा एषोऽन्वभ्यवचारं प्रजाः शमायते , स्वेनैवैनं भागधेयेन स्वं योनिं गमयति- मै १.१०.२०

गिरिपर-'  मै २.६.८

रुद्राय गामनयन् , तस्य तॄतीयमिन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ रुद्राय त्वा मह्यं वरुणो ददाति - मै १.९.४, काठ ९.९, क ८.२,

ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतं । बृहता यशसा बलं हविरिन्द्रे वयो दधुः ॥- मै ३.११.१२, काठ ३८.११, ९.

चतुर्दश- १ काठ १४.४ ,

चतुष्पथ- १ माश २.६.२.७ ,

मै १.१०.२०, काठ ३६.१४ २;

प्रजापतेस्तपः सृष्टिश्च -- तम् षष्ठम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । षष्ठम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् पञ्चभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् रुद्र एव इति । यद् रुद्रश् चन्द्रमास् तेन । न ह वा एनम् रुद्रो हिनस्ति ।- कौ ६.७ ;

जराबोधीय- ४ जै ३.११,

तिष्यापूर्णमासे यजेत तिष्यो वै रुद्रश्चन्द्रमास्सोमस्सौमीरतः प्राचीनमोषधयो रौद्रीः प्रतीचीनँ शुष्यन्ति - काठ ११.५;

तैसं २.२.१०.१, मै २.१.५  ४,

त्रिष्टुभ्- मै १.९.२, काठ ९.१०, गो २.२.९, (तु.) २ ६;

काठ ७.६ ३१;

जै २.१०१ ३३,

जै ३.३६३ ४० ,

जैउ १.४.४.५ ५२;

त्रैष्टुभ- मै १.१.१०, क ३९.२, जै १.८१ २०;

जै १.७३, १.७८ २१;

दक्षिण,णा- ऐब्रा ८.१४ ५;

मै ४.१.१० ५०;

दक्षिणतस् जै २.१४२ २८,

तै २.७.१५.५ २९,

दिव- ४०,

मै २.९.९ ११४,

देव- काठ २५.१ ९०,

काठ २४.४, क ३७.५ २ २७;

कौ २५.१३ २२८;

काठ २४.३ २२९

द्यावापृथिवी- मै २.८.६ २ ६;

पशु- मै १.८.५ १३;

मै १.६.११ ६ २;

माश ३.२.४.२० २७५.

तैसं ३.४.५.१ (तु. तै ३.११.४.२) २७७

तां ७.९.१८ २७८,

मै १.६.११ २७९

पशुपति- मै ४.२.१२ ३,

मै २.६.६ ९.

काठ २२.११ पशुश्रपण,

,

तैसं १.२.१२.२ , काठ २.९, क २.३ माश ३.५.२.५ (तु. तै ६.२.७.५) २,

प्रजापति-  ऐ ३.३३ ५८;

प्रद्यु- जै ३.३४८ १;

प्रातःसवन- माश १४.१.१.१५ १;

इमे वै लोका भुवनं तेषामधिपतिर्यो रुद्र इति- काठसंक १४१.५ १,

भूमि- ; मरुत्- ४१ , महस्- ;

माध्यन्दिन- तै १.५.११.३ १९;

कौ १६.१, ३०.१, , जै ३.५७, श ४.३.५.१ २०;

जै २.१३९ २१,

मृगव्याधः ऐ ३.३३

यज्ञ- १८९ द्र.

 

रुद्रवत्

सोमाय त्वा रुद्रवते स्वाहा । मै ४,,८ ।

सोमाय रुद्रवते श्यामाकं चरुम् ( निर्वपेत्) । मै २,,६ ।। (वत्- चन्द्रमस्- ५९ द्रः ।

रुद्रिय, या

रुद्रियः स्विष्टकृत् ( यागः) । माश १ ७,,२१ ।

सँ सोमो रुद्रियाभिस्तनूभिः (अव्यात्) । मै ४,१२, , कठ १०,३७ (तु तै २,, ११, -) ।। [ या- अग्नि- ६५० द्र.

रौद्र

अवलिप्ता रौद्राः । मै ३ १३, ४ ।

तस्य (रौद्रस्य गावेधुकस्य चरोः) द्विरूपो गौर्दक्षिणा शितिबाहुर्वा शितिवालो वा । माश ५, , , १० ।

बभ्रुररुणबभ्रुश्शुक्रबभ्रुस्ते रौद्राः । काठ ४९.१ ।

यो ऽ शृतः (पुरोडाशः) स रौद्रः । तैसं २, ६ ३ ४ ।

रुरू रौद्रः । मै ३ १४,२०; क ४७,९ ।

रौद्रं गवि सत् ( पयः) । मै १, , १० ।

रौद्रश्चरुरग्नये वैश्वानराय । तैसं ७,,२१, १ ।

रौद्रो गावेधुकश्चरुः (गावीधुकश्चरुः [ मै.) । मै २, , , माश ५..,११; १३ ।

वास्तवमयं रौद्रं चरुं निर्वपेद्यत्र रुद्रः प्रजाः शमायेत । मै २..४ ।। द्र- अक्षावाप- , , ; अग्नि- ६ ७९; उदञ्च्- ११ , पशु- २८४; प्रतिहर्तृ- ५ द्र.

रौद्री

यर्हि लोहिनीव शृता तर्हि रौद्री - यर्हि श्येनीव शृता तर्ह्याग्नेयी । मै ३, १०, १ ।

रौद्रीः प्रतीचीनम् (ओषधयः ), शुष्यन्ति प्रतीचीनम् । काठ ११,५ ।

रुद्र- ६३; रौद्र- ५ द्र.