पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रेणुका

वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।
दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥१॥ - ऋ. १०.१६८.१

अस्मिन् ऋचि वातस्य रथस्य प्रशंसा अस्ति। यदा वातस्य रथः द्युलोकं गच्छति, तदा अरुणवर्णानां उत्पत्तिर्भवति। यदा वातस्य रथः पृथिव्यां गच्छति, तदा रेणोः, धूल्याः उत्पत्तिर्भवति। सोमयागे आरुणकेतुकअग्निचयनं कृत्यं भवति। अस्य कृत्यस्य उद्देश्यमस्ति यत् पृथिवीतः ऊर्जायाः विकसनं एवं प्रकारेण भवेत् येन तत् द्युलोके अरुणवर्णस्य रूपं भवेत्। अरुणवर्णस्य अस्तित्वं सूर्योदयात् पूर्वं भवति। ऋग्वेदस्य उपरोक्त ऋक् कथयति यत् द्युलोके यः अरुणमस्ति, तस्य पृथिव्योपरि रूपं रेणुः, धूलिः अस्ति। अपि च -

आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् ।
शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥१४॥ - ऋ.१.३३.१४

अस्मिन् ऋचि कथनमस्ति यत्  इन्द्रस्य अश्वानां गमनेन तेषां शफाच्च्युता रेणुः द्युलोकस्य स्पर्शं करोति। अयं संकेतमस्ति यत् यः पृथिव्याः रेणुरस्ति, तस्य विकसनं द्युलोकस्य अरुणवर्णे भवितुं शक्यमस्ति। सामान्य व्यवहारे, पादतलतः कस्यापि प्रकारस्य रेणोः ऊर्ध्वविकसनं न भवति। सर्वापि रेणोः प्रसरणं देहे कामाग्निरूपेण भवति। अतएव, यदा पुराणेषु रेणुकायाः उल्लेखनं जमदग्नेः भार्यारूपेण भवति, अयं संकेतमस्ति यत् जमदग्नि ऋषिः अस्याः रेणुकायाः विकसनं ऊर्ध्वां दिशि कर्तुं समर्थः अस्ति।

अन्यत्र (ऋ. १.११६.७) उल्लेखमस्ति - कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः। एवंप्रकारेण, यः शफःअस्ति, पादतलः अस्ति, तत् एकः चलनी(छलनी) अस्ति यः स्थूलरसस्य क्षालनं सूक्ष्मरसानां सर्जनाय करोति। लोकवार्ता अस्ति यत् पादतले स्पर्शतः यस्य गुदगुदयोः जननं भवति, तस्य कारणं अयमस्ति यत् रेणोः रीणनं, प्रवाहं सम्यक् नास्ति। अयं बन्धितप्रवाहः वासनारूपेण आविर्भवति। अयं प्रतीयते यत् जमदग्निऋषेः कार्यं यत्र- यत्र रेणोः रीणनं  बाधितमस्ति, तस्य चिकित्सा अस्ति। ऋग्वेदे कतिपयेषु ऋचासु अपसः रीणनस्य उल्लेखाः भवन्ति, यथा - यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः । - ऋ. २.२२.४। ऋग्वेदे १०.१३७.६ जमदग्निऋषेः लाक्षणिकऋक् अस्ति - आप इद्वा उ भेषजीरापो अमीवचातनीः ।
आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥

संक्षेपे, एवं कथितुं शक्यन्ते यत्  रेणुका – जमदग्नि युगलः मन्दगत्यात्मिकायाः साधनायाः मार्गः अस्ति।

जमदग्नि उपरि टिप्पणी

 

संदर्भाः

देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥ १.५६.४

क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥ ४.१७.१३

मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥ ४.४२.५

उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् ।
स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥ ४.३८.६

उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये ।
तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥४.३८.

यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥ १०.७२.६

वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।
दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥ १०.१६८.१

यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥ शौअ १०.१.१३