पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX ( Ra, La)
|
|
राष्ट्र राष्ट्रः किं भवति, अस्मिन् संदर्भे डा. फतहसिंहः कथयति स्म यत् मेरुदण्डः राष्ट्री अस्ति। मेरुदण्डस्य ३३ पर्वाः राष्ट्रस्य भरणं कुर्वन्ति। कर्मकाण्डे राष्ट्रस्य भरणस्य द्विप्रकारौ स्तः – राजसूयः एवं अश्वमेधः। राजसूयस्य पश्चात् संग्रामः भवति। राजसूययागे मुख्य कृत्यः यजमानस्य अभिषेकः अस्ति। अभिषेकः अर्थात् विशिष्टजनेभिः यः पुण्यरूपीजलः अर्जितमस्ति, तेन यजमानस्य सेचनम्। द्यूतक्रीडा अपि अनिवार्यः अस्ति। व्यवहारे यत्र – यत्र द्यूतं अस्ति, तत्र-तत्र राजसूयस्य अस्तित्वं अस्ति, अयं कथनं अतिशयोक्तिः नास्ति। वैदिकवाङ्मये राजसूययागे गन्धर्वाप्सरादिभ्यः प्रजाभ्यः राष्ट्रस्य भरणस्य अपेक्षा अस्ति। अत्र प्रजायाः उत्पत्तिः मिथुनेन भवति एवं मिथुनं तत्रैव सम्भवमस्ति यत्र न्यूनातिरेकं अस्ति। स्वव्यक्तित्वे न्यूनातिरेकस्य दर्शनं न सरलमस्ति। वैदिकवाङ्मये अस्य दर्शनस्य अपेक्षा गन्धर्वेभ्यः अस्ति। राजसूये यः द्यूतमस्ति, अश्वमेधे तस्य विद्यमानता न भवति। मेरुदण्डस्य ये पर्वाः सन्ति, तेषां मध्ये संवादं विद्युद्गतितः भवति। संदर्भाः
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि । निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे। ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि॥ १०.१२४.०५ 10.173 ध्रुव आङ्गिरसः। राजा। अनुष्टुप् आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः। विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥ १०.१७३.०१ इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः। इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय॥ १०.१७३.०२ इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा। तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः॥ १०.१७३.०३ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम्॥ १०.१७३.०४ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्॥ १०.१७३.०५ ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि। अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत्॥ १०.१७३.०६
१. राजसूय-ब्राह्मणम् -- अथैते रत्निनः , क्षत्रस्य वा एतान्यङ्गानि, यस्य वा एतान्योजस्वीनि भवन्ति, तद् राष्ट्रमोजस्वी भवति…..बार्हस्पत्यश्चरुर् ब्रह्मणो गृह इति, ब्रह्म वै बृहस्पति , र्बृहस्पतिपुरोहित खलु वै राष्ट्रम् ऋध्नोति, ब्रह्म वा एतत् पुरस्ताद् राष्ट्रस्यात्यौहीत् , अथो ब्रह्मण एव राष्ट्रम् अनुकं करोति । मै ४,३,८ । २. आग्नेयो वै ब्राह्मणः सौम्यो राजन्यः । अभितः सौम्यमाग्नेयौ भवतस्तेजसैव ब्रह्मणोभयतो राष्ट्रं परिगृह्णाति । तैसं २, १, २,९ । ३. राट् -- अष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा राष्ट्रं समुद्यच्छन्त्येतेष्वेवाध्यभिषिच्यते । तां १९, १, ४ ॥ ये राष्ट्रभृतो ये राष्ट्रस्यानुभर्तारस्तेभ्यो राष्ट्रीयः परिदेय इमे वाव ते प्राणाः - काठ ३७, ११ अग्निश्चास्या मनश्च वायुश्चान्तरिक्षस्य यज्ञश्च सूर्यश्च दिवश्चन्द्रमाश्च स्थस्सप्तथस्स हि भयादपवहति त्रिषप्ताः कवचिनस्त्रिषप्ता निषङ्गिणस्त्रिषप्ता आयुधिनस्तेभ्यो राष्ट्रीयः परिदेय इमे वाव ते प्राणाः - काठ ३७, ११ ४. असौ वा आदित्यो राष्ट्रमृतवो राष्ट्रभृतस्तेभ्य एवैनत् संप्रयच्छति। काठ ३७, ११। यद्वै यज्ञस्य साम्ना क्रियते राष्ट्रं यज्ञस्याशीर्गच्छति यदृचा विशं यज्ञस्याशीर्गच्छति – बौश्रौसू ३.१७ ५. यद्वै यज्ञस्य साम्ना क्रियते, राष्ट्रं यज्ञस्याशीर्गछति । तैसं २, ६, १०, ३-४ । ६. राष्ट्रं विशं घातुकम् । तै ३, ९, ५, ४, ५ । ७. चितौ वह्निक्षेपविधिः -- राष्ट्रं वै वैश्वानरो विण् मरुतः । वैश्वानरꣳ हुत्वा मारुताञ् जुहोति राष्ट्र एव विशम् अनु बध्नाति । उच्चैर् वैश्वानरस्या श्रावयत्य् उपाꣳशु मारुताञ् जुहोति तस्माद् राष्ट्रं विशम् अति वदति मारुता भवन्ति मरुतो वै देवानां विशः । देवविशेनैवास्मै मनुष्य विशम् अव रुन्द्धे सप्त भवन्ति सप्तगणा वै मरुतः । गणश एव विशम् अव रुन्द्धे । तैसं ५, ४, ७, ७ ॥ ८. राष्ट्रं वै वैश्वानरः। तैसं ५, ४, ७, ७ । ९. राष्ट्रं सप्तदशः ( स्तोमः )। तै १, ८, ८, ५। १०. राष्ट्रं सांनाय्यं। स यो ह वै राष्ट्रं सांनाय्यमिति वेदाव ह राष्ट्रं रुन्द्धेऽथो यत्किं च राष्ट्रेण जय्यं सर्वं हैव तज्जयति तद्यत्संनयन्त्येकेनैके तस्माद्राष्ट्रं सं चैति वि च - माश ११, २, ७, १७ । १२. राष्ट्रमपुरोहितं पराभावुकम् । काठ २७, ८ ॥ १३. राष्ट्रं मुष्टिः । तै ३, ९, ७, ५; माश १३,२,९,७ ॥ १४. तस्मै विशः स्वयमेवा नमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाह। ऐ ८, २६ ।। अप्रतीतो जयति सं धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति - ऐ ८, २६ १५. वारुणं वै राष्ट्रम् । तैसं २, ३, १,४ । आदित्या वै देवतया विड् विशम् एवाव गच्छति ॥ अवगताऽस्य विड् अनवगतꣳ राष्ट्रम् इत्य् आहुः । ये कृष्णाः स्युस् तम् वारुणं चरुं निर् वपेत् । वारुणं वै राष्ट्रम् उभे एव विशं च राष्ट्रं चाव गच्छति – तै.सं २.३.१.३ १६. श्रीर्वै राष्ट्रम् । माश ६, ७, ३, ७ ॥ १७. सविता राष्ट्रꣳ राष्ट्रपतिः । राष्ट्रमस्मिन्यज्ञे यजमानाय ददातु स्वाहा ।। तै २,५,७,४; मित्रविन्दा इष्टिः-- सविता राष्ट्रं राष्ट्रपतिः राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सवितोदक्रामत्पुनरस्यै राष्ट्रमददात् – माश ११.४.३.[१४] राष्ट्रं वा अश्वमेधः राष्ट्र एते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं भवन्त्यथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्माद्राष्ट्र्यश्वमेधेन यजेत - माश १३.१.६.३ २६ तै ३.९.७.१,
अप वा एतस्मात् श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते -
१३.२.९.[१] क्षत्रं वा एष प्रपद्यते यो राष्ट्रम्प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रम्प्रपन्नम्ब्रह्म न परिजिनाति क्षत्रम्मा ब्रह्मणो गोपायत्वित्याह - ऐ ७.२२ राष्ट्रं वै द्रोणकलशो विशो ग्रावाणः। यद् द्रोणकलशश् शिथिलस् स्याद् राष्ट्रं शिथिलं स्यात्। तद् अनु विशो विशम् अनु यजमानो यजमानम् अनु प्रजाः। तं दृंहति देवी त्वा धिष्णे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीद इति। इमे वै देवी धिषणे इदं ध्रुवं सदः। - जै १.८० राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति -- तैसं ३.५.७.३; विड्वै गभः राष्ट्रं पसः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विशं घातुकम् । तै ३.९.७.४ विड्वै गभः । राष्ट्रं मुष्टिः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विश घातुकम् । तै ३.९.७.५ विड्वै गभो राष्ट्रं मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विशं घातुकः – माश १३.२.९.[७] अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ...... अथास्या मध्यमेधतामित्याह । श्रीर्वै राष्ट्रस्य मध्यम् - तैब्रा ३.९.७.१, राष्ट्र-भृत् ये राष्ट्रभृतो ये राष्ट्रस्यानुभर्तारस्तेभ्यो राष्ट्रीयः परिदेय इमे वाव ते प्राणास्तेभ्य एवैनं परिददाति तेषामेताः पत्न्यस्तानेता अनु ताभ्योऽत्रापि कार्यं ताभ्य एवैतत् क्रियते ता ह्येता अनु पुरोधाकाम: कुर्वीत ब्रह्म चैव क्षत्रं च सयुजौ करोति - काठ ३७, ११ १. असौ वा आदित्यो राष्ट्रमृतवो राष्ट्रभृतस्तेभ्य एवैनत् संप्रयच्छति । काठ ३७, ११ । २. यद् राष्ट्रभृद्भी राष्ट्रमाददत तद्राष्ट्रभृतां राष्ट्रभृत्त्वम् ।....... तैसं ३, ४, ६, २।।
राष्ट्रभृद्धोमः--
अथातो
राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह देवताः
सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता
एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति
न स यस्मै न तद्यद्राजानो राष्ट्राणि बिभ्रति राजान उ एते देवास्तस्मादेता
राष्ट्रभृतः -
९.४.१.[१] ४. वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति। तैसं ३, ४, ८,७ ॥ गन्धर्वाप्सरसो वा एतम् उन् मादयन्ति य उन्माद्यत्य् एते खलु वै गन्धर्वाप्सरसो यद् राष्ट्रभृतस् तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाञ् छमयति नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवत्य् एते वै गन्धर्वाप्सरसां गृहाः स्व एवैनान् आयतने शमयति । तैसं ३.४.८.४ इष्टियज्ञेषु प्रकृतिभूतदर्शपूर्णमासविकृतौ हविर्यज्ञानां प्रथमे अग्न्याधानप्रकरणे गोपितृयज्ञेऽभ्यातानहोमानन्तरं अन्यत्र यत्र क्व च वृद्धौ ‘ऋताषाड् ऋतधामा' इत्यादिभिर्द्वाविंशतिमन्त्रैः स्वाहाकारान्तैराज्यं जुहोति, इत्येते मन्त्रास्तदाहुतिहोमाश्च राष्ट्रभृत उच्यन्ते। तत्र राष्ट्रभृताम् अग्निचयने उत्पन्नानां उद्वाहे उपदेश:, 'राष्ट्रभृतो जुहोति' इति । उद्वाहकर्मसु वचनादतिदेशः इति विशेषोऽवधेयः । - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः – प. पीताम्बरदत्त शास्त्री (राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)
* राष्ट्रभृतः नाम होमा दर्विहोमाः । वि. ८.४.४. * एते होमाः अनेकफलार्थं विहिताः यथा-(तैसं, ३।४। ८) अधिदेवने, अभिचरतः, आत्मोत्कर्षार्थम् , उन्माद - परिहाराय, ओजस्कामस्य, ग्रामकामस्य ज्येष्ठबन्धोरपभूतस्य सतः इत्यादि । * राष्ट्रभृतां अग्निप्रकरणे उत्पन्नानां उद्वाहे उपदेशः ' राष्ट्रभृतो जुहोति' इति । भा. ७.१.१.१२, * राष्ट्रभृतां उद्वाहकर्मसु वचनादतिदेशः । ८.४.५.२८. * राष्ट्रभृद्धोमाः अनारभ्यश्रुताः वैदिककर्माङ्गम् । वि. ३.४.१३, * राष्ट्रभृद्धोमाः 'ऋताषाडृतधामाग्निर्गन्धर्वः' (तैसं. ३.४.७) इत्यादिभिर्मन्त्रैः क्रियमाणा होमाः । ते च वैदिकेष्वेव कर्मसु, न लौकिकेषु कृष्यादिषु । ३।४।१३. * राष्ट्रभृद्धोमेषु 'ताभ्यः स्वाहा' इत्येव द्वितीयोद्वितीयो मन्त्रः ॥ * 'ऋताषाड् ऋतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्मक्षत्रं पातु, ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा' इति मन्त्रे स्त्रीपुंसलिङ्गकपदानां व्यतिषक्तानां यथार्थं विनिष्कृष्य मन्त्रद्वयीकृत्य ("ऋताषाड् ऋतधामा गन्धर्वस्तस्योषधयोऽप्सरस ऊर्जो नाम स इदं ब्रहाक्षत्रं पातु तस्मै स्वाहा' इति प्रथमो मन्त्रः । 'ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा' इति द्वितीयः इति ) होमद्वये विनियोगः । 'या ते अग्ने' इति मन्त्रत्रये 'तनूः' इत्याद्यंशस्य सकृदाम्नातस्यापि आवृत्त्या विनिष्कर्षदर्शनात् । 'नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि' इति मन्त्रस्य होमे विनियोगे पृथिव्यन्तरिक्षद्युपदानां अन्नवातवर्षपदैः व्यतिषक्तानामपि विभजनदर्शनात् । इति प्राप्ते, स्वाहापदस्य सकृदाम्नानानाम्नानाभ्यां मन्त्रान्तरयोराकाङ्क्षावशेन होमसंख्यावशेन च तत्रतत्र विनिष्कर्षेऽपि द्विराम्नातस्वाहाकतया 'ताभ्यः स्वाहा' इति मन्त्रस्य निराकाङ्क्षतया च तावानेव भिन्नो मन्त्रः । तच्छब्दबलेन 'ता इदं' इत्यादेरपकर्षे तत्तच्छब्दवशेन सर्वांशस्यापकर्षापत्त्या ' तस्मै ताभ्यः स्वाहा' इति पाठेनैव तादृशमन्त्रद्वयसिद्ध्या स्वाहाकारान्तरवैयर्थ्यापत्त्यैव तावन्मात्रस्य भिन्नमन्त्रत्वानुमानात् ।। (केचिद्याज्ञिकास्तु नेतद्रोचयन्ते ) । संकर्ष. २.४.२६. (मीमांसाकोशः)
राष्ट्री १. राष्ट्री विशं घातुकः । माश १३, २, ९, ६, ७ । २. इयं पित्रे राष्ट्र्येत्यग्र इति वाग्वै राष्ट्री वाचमेवास्मिंस्तद्दधाति।। ऐ १, १९।। राष्ट्रीय-यो राष्ट्रीयो नेव प्रस्तिङ्नुयात् तमेतेन याजयेदैन्द्राबार्हस्पत्येन। परिततो हि वा एष पाप्मना ऽथैष न प्रस्तिङ्नोति, बृहस्पतये निरुप्यता, इन्द्राय क्रियते सर्वत एवैनं मुञ्चति, वज्रणेमा दिशो ऽभिपर्यावर्तते । मै २,१,१२ ।
|