पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX ( Ra, La)
|
|
रश्मि- १. एष वै यशो ...अथ यः कपाले रसो लिप्त आसीत्ते रश्मयो ऽ भवन् । माश ६, १, २, ३ । २. असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । तै १,६,६,२ । ३. सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतदुत्पुनात्यच्छिद्रेण पवित्रेणेति। माश १.१, ३,६ । ४. सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयः। माश ३, १, ३, २२ | ५. यस्याहवनीयमनुद्धृतमादित्योऽभ्यस्तमियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादपप्रयन्ति। तदस्मै व्यृध्यते।। माश १२, ४, ४, ६ ( तु. माश २, ३, १, ७) । स यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरत्येते वै विश्वे देवा रश्मयोऽथ यत्परं भाः प्रजापतिर्वा स इन्द्रो वै तदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागच्छन्ति – माश २.३.१.७ ६. रश्मयो वाव होत्रास् ते वा एकैकम् तस्माद् एकोक्थास्। तद्यदेकैकस्य रश्मेर्द्वौ द्वौ वर्णौ भवतः । तस्माद् द्विसूक्ताः।- गो २, ६, ६ । ७. देवेभ्यस्त्वा मरीचिपेभ्य इति । अमुष्मिन्वा एतं मण्डलेऽहौषीत् । य एष तपति तस्य ये रश्मयस्ते देवा मरीचिपाः । माश ४, १, १, २५ । ८. एष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवाः । माश ४, ३, १,२६ ॥ ९. एषा गतिरेषा प्रतिष्ठा य एष तपति तस्य ये रश्मयस्ते सुकृतः । माश १, ९, ३, १० । १०. बहूनि वै रश्मीनाꣳ रूपाणि । मै २, ५,११ । ११. ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृङ्गाणि । जै २, १४५ । १२. रश्मय एव हिङ्कारः । जैउ १,११,१,९ । १३. रश्मयः (आदित्यस्य) क्रीडय: ( मरुतः ) । मै १,१०,१६ । १४. मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः।। जै १,१३७ । १५. रश्मयो वाव होत्राः । गो २,६,६ । १६. वसतीवरीग्रहणम् - एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वेदेवाः । माश ३,९,२,६; हविष्मानस्तु सूर्य इति । एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवाः- माश ३.९.२.१२ ॥ १७. धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः। दिवा साम समदधात्, साम्नादित्यम्, आदित्येन रश्मीन्, रश्मिभिर् वर्षम्.. । गो १, १, ३६ । स्तोमभागेष्टकोपधानम् - रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च संधायात्मन्प्रपादयते प्रेतिना धर्मणा – माश ८.५.३.३ तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाऽभीशवो वै रश्मय- माश ५.४.३.१४ असुर्य – ४ मै १.६.१०; असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। - जैब्रा २.३९० ४० –तैआ ५.४.८; २९९ – तैआ ५.१२.१; ३७८ – जैउ १.१४.३.५; ऋतु- ८४ – मै ४.८.८, क ४५.१; अश्वमेधाङ्गमन्त्रकथनम्-- ऋतवो ऽङ्गानि संवत्सर आत्मा रश्मयः केशाः । नक्षत्राणि रूपम् ।..– तैसं ७.५.२५.१ स्तोमभागा इष्टकाः– रश्मिर् असि क्षयाय त्वा क्षयं जिन्व- तैसं ४.४.१.१; आदित्यो मेऽध्वर्युः...रश्मयो मे चमसाध्वर्य्यवस्ते मोपह्वयन्तां– ष. २.५ आतिथ्येष्टिः - तं वै च्छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दांस्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह - माश ३.४.१.२३ तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि - ऐ ४.१९; स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन् यद् दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य - तां ४.६.१३, देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवाचोऽवपादादबिभयुः । तं पञ्चभी रश्मिभिरुदवयन्न् । तस्मादेकविꣳशेऽहन्पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि ।तै १. २.४. २ उपांशुग्रहः -- देवेभ्यस् त्वा मरीचिपेभ्य इत्य् आह । आदित्यस्य वै रश्मयो देवा मरीचिपास् तेषां तद् भागधेयम् ।- तैसं. ६.४.५.५अंशुभिः पावयति, प्राणा वा अंशवः, प्राणैरेवैनं पावयति,.. देवेभ्यस्त्वा मरीचिपेभ्या इति, रश्मयो वै देवा मरीचिपाः, परिधयो रश्मयो – मै ४.५.५ दर्शपूर्णमासेष्टिः - वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः – तैब्रा ३.२.५.२ मरीचिप – २ – मै ४.५.५ ; महादेव – १- तैआ १.९.३; स यः स वैश्वानरो ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते - माश ९.३.१.२५ मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहं प्रतिदधाति - ९.३.१.२६ द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः।-जै १.१३७, मारुतं भवति। मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रमासते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत् साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति - तां १४.१२.९ ] । |