पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रम्भ

पुराणकथानुसारेण  महिषस्य पिता रम्भः अस्ति। काशकृत्स्नधातुव्याख्यानम् (चन्नवीरकृतटीका) .४७० अनुसारेण रभि धातुः शब्दे प्रयुज्यते। अपि , रम्भः--मनोवायुः आरम्भः--बुद्धिवायुः विरम्भः--चित्तवायुः। सुरम्भः--अहंकारवायुः संरम्भः--आत्मवायुः। शब्दकल्पद्रुमानुसारेण राभस्यमुत्सुकीभावः निर्व्विचारा प्रवृत्तिरिति गोविन्दभट्टः , रब्धा ...  आङ्पूर्व्वोऽयमारम्भे शास्त्रं पठितुमारभते शिष्यः इति दुर्गादासः वाचस्पत्यम् अनुसारेण - औत्सुक्ये, पौर्वापर्य्याविचारे अमरः शास्त्रं पठितुमारभते शिष्यः इति यः उल्लेखः अस्ति, तत् चक्षुरुन्मीलकः अस्ति। कार्यस्य आरम्भः सरलः अस्ति, किन्तु तस्य अवसानं प्रति नयनं कठिनम्।

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति।

महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्॥ ९.०९७.०७

अत्र कथनमस्ति यत् यः महिव्रतः, शुचिबन्धुः पावकः अस्ति, तत् वराहः अस्ति। सः वराहः पदेन रेभणम्, शब्दनम्, स्तुतिं प्रति अभिगच्छति। सूर्यस्य ये रश्मयः सन्ति, तेषां संज्ञा अपि पादाः अस्ति। कारणं, यदा सूर्यः उदेति, सर्वे प्राणिनः पादयुक्ताः, गतिशीलाः भवन्ति। अत्र वराहस्य पदस्य वैशिष्ट्यम् अस्ति यत् रेभणस्य आरम्भः भवति। अपि च, यः वराहः अस्ति, सैव पावकः, अग्निः अस्ति। पुराणेषु हिरण्याक्षअसुरः पृथिव्याः हरणं करोति। वराहावतारः पृथिव्याः रसातलतः उद्धारं करोति। यः वराहावतारः अस्ति, सः यज्ञात्मकः अस्ति, तस्य अङ्गः – अङ्गः यज्ञात्मकः अस्ति। सः पृथिव्याः उद्धारं केन प्रकारेण करोति। अनुमानमस्ति यत् पृथिवीमहाभूतेन सह अग्न्यादीनां अन्येषां महाभूतानां योजनं पृथिव्याः उद्धारमस्ति।

ब्रह्मवैवर्त्तपुराणे ४.१२.२३ नृसिंहतः हस्तयुग्मस्य एवं वराहतः  पादयुग्मस्य   रक्षायै अपेक्षा अस्ति - हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे । पादयुग्मं वराहश्च पातु ते कमलोद्भवः ।। हस्तस्य किं वैशिष्ट्यमस्ति। प्रसिद्धमस्ति – सवितुः प्रसविताभ्यां अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां इति। अतएव, रेभस्य, स्तुत्याः, शब्दस्य जननं वराहस्य वैशिष्ट्यमस्ति। हस्तस्य उत्प्रेरणे एवं पादस्य उत्प्रेरणे किं सूक्ष्ममन्तरं अस्ति, अस्य व्याख्या अपेक्षिता अस्ति। ये पदौ स्तः, ते चेतनायाः सुप्ततमाः भागौ स्तः। संगीतशास्त्रे केचन यन्त्राः स्वराणां सर्जनं कुर्वन्ति। स्वराणां प्रभावः नाभितः ऊर्ध्वावस्थितेषु केन्द्रेषु भवति। अन्ये यन्त्राः तालस्य सर्जनं कुर्वन्ति। तेषां प्रभावः नाभितः अधोस्थितेषु केन्द्रेषु भवति(द्र. विमला मुसलगाँवकरस्य पुस्तकः)। माता निर्मलादेवी कथयति स्म यत् यदा सिद्धपुरुषः चारणं करोति, तदा सः दूरतः एव सिद्धपीठस्य तरंगानां अनुभवं स्वपदाभ्यां करोति।

आधुनिकविज्ञानानुसारेण, यदा सूक्ष्मद्रव्यः – परमाणु, इलेक्ट्रान आदि अल्पकालिकेन, स्पंदितप्रकारस्य बाह्यकारणेन उत्तेजितां स्थित्यां , एक्साईटेड स्थित्यां भवति, तदा तस्य अनुत्तेजित्यां स्थित्यां पुनरागमनं द्विप्रकारेण संभवमस्ति। एकः – सः अतिरिक्तऊर्जायाः विसर्जनं प्रकाशरूपेण, दीप्तिरूपेण करिष्यति। द्वितीयः – सः अतिरिक्तऊर्जायाः विसर्जनं ध्वनिरूपेण करिष्यति। आध्यात्मिकरूपेण, यदि विसर्जनं प्रकाशरूपे भवति, तदा तस्य संसूचनं चक्षुषा भविष्यति। यदि ध्वनिरूपे भवति, तदा श्रोत्रेण। यः संसूचनकरणे असमर्थः अस्ति, सः अन्धः, बधिरः अस्ति –

प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः।

अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः॥ ९.०७३.०६

आधुनिकविज्ञाने उत्तेजितद्रव्यतः विसर्जितायाः ध्वन्याः संसूचनस्य विषयस्य संज्ञा फोटोएकाउस्टिक स्पेक्ट्रास्कोपी अस्ति। यदा द्रव्योपरि प्रकाशस्य आपतनं विकलरूपेण, स्पन्दितरूपेण भवति, तदा द्रव्याः प्रथमतः ऊर्जायाः अवशोषणं कुर्वन्ति एवं तदोपरि अवशोषितऊर्जायाः विसर्जनं ध्वनिरूपेण कुर्वन्ति। ध्वनिआयामः अत्यन्त लघु अस्ति। अपि च, प्रकाशस्रोतरूपेण लेजरसंज्ञकस्य प्रकाशस्य उपयोगः भवति। किन्तु वैदिकवाङ्मये संसूचनाय ध्वन्याः लघुआयामस्य  चिन्ता नास्ति –

दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः।

विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण॥ १.११६.२४

अश्वं न गूळ्हमश्विना दुरेवैर्ऋषिं नरा वृषणा रेभमप्सु।

सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि॥ १.११७.०४

ये द्रव्याः अवशोषितऊर्जायाः विसर्जनं दीप्तिरूपेण कुर्वन्ति, तेभ्यः ध्वन्याः विसर्जनं नगण्यं भवति। किन्तु वेदे अयं बन्धनं नास्ति -

भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः।

अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे॥ १.१६६.१०

अत्र कथनमस्ति यत् ये मरुतः सन्ति, तेषां वक्षोपरि रुक्मः, दीप्तिः अपि अस्ति, रेभः अपि।

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्।

दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते॥ ३.०२९.१३

अत्र ये दश अङ्गुलयः सन्ति, ते अङ्गुष्ठरूपपुमांसस्य जनने सं रभन्ते, अयं कथनमस्ति। एवंप्रकारेण, वैदिकवाङ्मये ये द्रव्याः दीप्त्याः विसर्जनं कुर्वन्ति, तेषां संज्ञा पुरुषः प्रतीयते, ये ध्वन्याः विसर्जनं कुर्वन्ति, तेषां स्त्री।

विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः।

अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः॥ ५.०५४.०३

अत्र कथनमस्ति यत् या अमा अस्ति, तत् रभसा एवं ओजसा स्तनयत्। जैमिनीयब्राह्मणे ३.१७४ कथनमस्ति यत् द्वादशाहे ये पूर्वे षडहाः सन्ति, तेषां संज्ञा अमा अस्ति। अमातः पूर्वा स्थितिः आमः, अपक्वा अस्ति। पृष्ठ्यषडहसंज्ञके सोमयागे षष्ठेअह्न्यावसाने रैभीसंज्ञकानां ऋचानां गानं भवति – वच्यस्व रेभ वच्यस्व इति। षडाहानां उपरि यः छन्दोमसंज्ञकः सप्तममहः अस्ति, तस्य आरम्भः एभिः ऋग्भिः अस्ति –

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥७॥
प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः
आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥८॥
रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते गावः
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥९॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः

एता भवन्ति - प्र काव्यम् उशनेव ब्रुवाण इति प्रवतीः प्रायणे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। देवो देवानां जनिमा विवक्तीति सोमो वै देवो देवानां जनिमा। सोमम् एव तत् प्रजनयन्ति। महिव्रतश् शुचिबन्धुः पावक इत्य् अन्नं वै देवाश् शुचिव्रतम् इत्य् आचक्षते। अन्नम् देवानां सोमः। तम् एवैतत् प्रजनयन्ति। पदा वराहो अभ्य् एति रेभन्न् इति वराहो वै भूत्वा प्रजापतिष् षष्ठाद् अह्नस् सप्तमम् अहर् अभ्य् अत्यक्रामत्। अतिक्रान्तिर् एवैषा। प्र हंसासस् तृपला वग्नुम् अच्छेति ब्राह्मणा वै हंसासस् तृपलाः। अमाद् अस्तं वृषगणा अयासुर् इति षडहो वा अमाच् छन्दोमा अस्तम्। छन्दांसि वृषगणाः। छन्दांस्य् एवैतच् छन्दोमान् अभ्य् अतिनयन्त्य् उत्तरस्य त्र्यहस्य संपारणाय। अङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् इति बृहद्रथन्तरे एवैतत् प्रातस्सवने युज्येते। ते युक्ते माध्यन्दिने सवने ऽभ्यारोहन्ति। योजत उरुगायस्य जूति वृथा क्रीळन्तं मिमते गाव इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परीणसं कृणुते तिग्मशृंग इति परीणसम् इत्य् आह - अन्नं वै परीणसम् - अन्नाद्यस्यैवावरुद्ध्यै। दिवा हरिर् ददृशे नक्तम् ऋज्र इत्य् अतिरात्रो रूपेण क्रियते॥जैब्रा. ३.१७४

ऋचासु सार्वत्रिकरूपेण कथनमस्ति यत् यदा सोमः पवित्रे प्रविशति, तदा रेभस्य जननं भवति –

अया पवस्व देवयुर्मधोर्धारा असृक्षत।

रेभन्पवित्रं पर्येषि विश्वतः॥ ९.१०६.१४

कथनमस्ति यत् सोमस्य रेभणे वायुमहाभूतः उत्तरदायी अस्ति –

दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः।

वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः॥ १०.०७६.०५

कर्मकाण्डे, सोमद्रवस्य पवित्रसंज्ञकेन अविवालेन निर्मितेन वस्त्रेण क्षालनं अतिसाधारणं कृत्यं प्रतीयते। किन्तु ऋचा संकेतं करोति यत् अस्मिन् काले किंचित् असाधारणं घटितं भवति।

 

 

देहमध्ये यस्य सोमस्य सृजनं भवति, तस्य प्राप्तिः सुरायाः शोधनेन भवति। सम्प्रति अयं ज्ञातमस्ति यत् समस्त देहव्यापारस्य प्रचलनं सुरा, इथाईल एल्कोहल अणोः विघटनतः भवति। किन्तु वैदिकवाङ्मयः सुरातः ऊर्ध्वं सोमस्य वार्तां करोति। सोमः किं भवति, न ज्ञातमस्ति। अनुमानमस्ति यत् यथा सुरायाः अणोः विघटनतः ऊष्मणः जननं भवति, एवमेव सोमस्य विघटनतः ऊष्मणः अवशोषणं भवति, शीतस्य प्रादुर्भावः भवति। एकः ऊष्माक्षेपी प्रक्रिया अस्ति, अन्यः ऊष्माशोषी। वनस्पतयः सूर्यकिरणानां अवशोषणं कृत्वा भोजनस्य निर्माणं कुर्वन्ति। अयं प्रक्रिया ऊष्माशोषी अस्ति। अन्यः प्राणीजगतः रक्तस्य माध्यमे आक्सीजनस्य ग्रहणं – प्रदानं करोति। अयं प्रक्रिया ऊष्माक्षेपी अस्ति, येन कारणेन प्राणी गतिशील अपि भवति।

    वेदे कथनमस्ति यत् अश्वस्य शफाः सुरायाः सिञ्चनं कुर्वन्ति – शतं कुम्भां असिञ्चतं सुरायाः। यथा अश्वस्य शफाः कुर्वन्ति, एवमेव मनुष्यस्य पादतलाः अपि कुर्वन्ति। तदोपरि तस्या सुरायाः शोधने कानि कानि अङ्गानि भागं वहन्ति, न ज्ञातमस्ति। व्यावहारिकरूपेण, यः यकृतः अस्ति, तत् शर्करातः सुराअणोः निर्माणं करोति। सुरायाः अपि द्विप्रकारौ स्तः – इथाईल एल्कोहल एवं मिथाईल एल्कोहल। पशवः मिथाईल एल्कोहलस्य पाचनं कर्तुं शक्यन्ते, न मनुष्यः। यः वृक्कः अस्ति, तत् रक्तस्य क्षालनं करोति। देहमध्ये कानि कोषाः सन्ति येषां फोटोध्वानिक प्रतिक्रिया अधिकतमा अस्ति, अन्वेषणीयः।

     यथा सोमस्य क्षालने पदस्य रेभणस्य उल्लेखः अस्ति, एवमेव कर्मकाण्डे अन्ये कालाः सन्ति यत्र देहस्य अन्ये अवयवाः शोधने महत्त्वपूर्णाः भवन्ति। पितृतर्पणकाले कराङ्गुष्ठस्य निकटतम भागः महत्त्वपूर्णः भवति। फोटोध्वानिक दृष्ट्या एतेषां कोषाणां किं प्रतिक्रिया अस्ति, अयं अन्वेषणीयमस्ति।

 

संदर्भाः

अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः।

तुविद्युम्न यशस्वतः॥ १.००९.०६

रभ राभस्ये' राभस्यं कार्योपक्रमः। 

युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः।

उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः॥ १.०८२.०६

रभसाः वेगवन्तः तीव्राः क्षिप्रमदकारिण- इत्यर्थः

अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता।

त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी॥ १.१०५.०९

जामित्वाय कूपान्निर्गन्तृत्वाय प्ररेभति तान् रश्मीन् स्तौति 

स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः।

अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत्॥ १.११३.१७

दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः।

विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण॥ १.११६.२४

विप्रुतं विप्लुतं व्याक्षिप्तसर्वाङ्गं प्रवृक्तम् 

अश्वं न गूळ्हमश्विना दुरेवैर्ऋषिं नरा वृषणा रेभमप्सु।

सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि॥ १.११७.०४

अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम्।

हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम्॥ १.१२१.०८

गोरभसम् अत्र गोशब्दः पयसि वर्तते पयो बलम् तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः 

तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे।

ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन॥ १.१६६.०१

भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः।

अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे॥ १.१६६.१०

जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा।

पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम्॥ २.०१०.०४

बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि।

श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन॥ ३.००१.०८

रभसा वेगवति

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्।

दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते॥ ३.०२९.१३

सं रभन्ते शब्दं कुर्वते

पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन्।

विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन्॥ ३.०३१.१२

रभसं वेगवन्तं तमिन्द्रम् ऊर्ध्वं द्युलोके वि मिन्वन् हविःस्वीकरणार्थं विशेषेणास्थापयन् 

विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः।

अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः॥ ५.०५४.०३

धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः।

शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत्॥ ६.००३.०८

रभसानः वेगं कुर्वन् अद्यौत् विद्योतते

धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै।

वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ॥ ६.०११.०३

द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः।

अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन्॥ ७.०१८.२२

श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः।

प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन्॥ ८.०३७.०७

अदब्धस्य स्वधावतो दूतस्य रेभतः सदा।

अग्नेः सख्यं वृणीमहे॥ ८.०४४.२०

प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः।

अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः॥ ९.०७३.०६

प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः।

सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम्॥ ९.०८६.३१

रेभः शब्दयिता रेभृ शब्दे

प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना।

भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते॥ ९.०९६.०१

रभसानि इन्द्रस्य वेगेनागमने निमित्तानि वस्त्राण्याच्छादकानि पयःप्रभृतीन्याश्रयणानि 

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ ९.०९६.०६

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन।

कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन्॥ ९.०९६.१७

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता॥ ९.०९७.०१

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति।

महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्॥ ९.०९७.०७

एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः।

वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन्॥ ९.०९७.४७

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः।

हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन॥ ९.०९७.५७

9.99 रेभसूनू काश्यपौ।

9.100 रेभसूनू काश्यपौ।

अया पवस्व देवयुर्मधोर्धारा असृक्षत।

रेभन्पवित्रं पर्येषि विश्वतः॥ ९.१०६.१४

अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः।

प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा॥ १०.००३.०६

स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः।

अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः॥ १०.००३.०७

अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः।

अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान्॥ १०.०५३.०८

अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु।

सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ॥ १०.०६१.२४

दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः।

वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः॥ १०.०७६.०५

इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति।

तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम्॥ १०.०८७.०८

रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम्।

येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति॥ १०.०९२.१५

सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ।

अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युः॥ १०.०९५.१४

गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा।

इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम्॥ १०.१०३.०६

अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम्।

तदा रभस्व दुर्हणो तेन गच्छ परस्तरम्॥ १०.१५५.०३