पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

लोम

वैदिकवाङ्मये लोम, त्वक्, मांस, अस्थि, मज्जा पञ्चकस्य तुलना विभिन्न प्रकारेण कृता अस्ति। एकः प्रकारः अयमस्ति यत् अस्य पञ्चकस्य तादात्म्यं अग्निचित्याः पञ्च चितिभिः सह अस्ति –

पञ्च तन्वो व्यस्रंसन्त लोम त्वङ्मांसमस्थि मज्जा ता एवैताः पञ्च चितयस्तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यच्चिनोति तस्माच्चितयः – माश ६.१.२.१७

यदि अयं सत्यमस्ति, तर्हि प्रथमा चितिः लोमसदृशा अस्ति। पुराणेषु कथनमस्ति यत् पृथिव्योपरि ये ओषधि-वनस्पतयः सन्ति, ते पृथिव्याः लोमानि सन्ति। ओषधि-वनस्पतयः सूर्यतः ऊर्जां गृहीत्वा प्राणिभ्यः अन्नस्य सृजनं कुर्वन्ति। यदि प्रथमा चितिः लोमसदृशा अस्ति, तर्हि अयमपि अन्नस्य सर्जनात्मिका भवितुं शक्यते। यज्ञवेदिक्षेत्रे अग्निचित्याः स्थापनात्पूर्वं क्षेत्रस्य कर्षणं कृत्यं भवति एवं चतुर्दशओषधीनां (सप्त ग्राम्याः, सप्त आरण्याः) वपनं भवति। यः क्षेत्रः बीजस्य अंकुरणे समर्थः अस्ति, तत्रैव अग्निचयनं कर्तुं शक्यन्ते। प्रथमा चित्याः अन्नेन सह सम्बन्धस्य अयमेव एकमात्रः प्रत्यक्ष उदाहरणः अस्ति। प्रथमचित्योपरि ये अन्ये कृत्याः सम्पन्नाः भवन्ति, तेषां अन्नसर्जनस्य तादात्म्यं अस्ति वा न वा, अन्वेषणीयः।

     पुराणेषु मनुष्यस्य देहोपरि ये लोमाः सन्ति, तेषां चरमावस्था अयमस्ति यत् ते वनस्पतिसदृशैव सूर्यस्य ऊर्जायाः संग्रहणं कर्तुं शक्ताः भवन्तु। मत्स्यपुराणे  २४८.६८ कथनमस्ति यत् यज्ञवराहः दर्भलोमः अस्ति। अपि च, यदा विष्णुना ब्रह्माण्डे क्रमणं कृतमासीत्, तदा तस्य लोमभ्यः कुशादीनां उत्पत्तिः अभवत्, अयमपि उल्लेखः अस्ति। अत्र संकेतमस्ति यत् पृथिव्योपरि ये ओषधिवनस्पतयः सन्ति, तेषु कुशदर्भयोः विशिष्टं स्थानं अस्ति। आधुनिकविज्ञानानुसारेण, इक्षु, दर्भ, मक्का, ज्वारादयः केषांचित् ओषधयः सन्ति ये आक्सीजनस्य अनुपस्थित्यां एव कार्बनडाईआक्साईड गैस माध्यमेन सूर्यस्य किरणानां उपयोगं कर्तुं समर्थाः सन्ति(एनारोबिक स्थितिः)। अपि च, यदि सूर्यस्य प्रकाशस्य मात्रा अधिका भवति, तदा अन्या ओषधयः तस्य अवशोषणे समर्थाः न भवन्ति। इक्ष्वादयः एव समर्थाः भवन्ति। एतेषां सदृशानां ओषधीनां अस्तित्वं समग्रओषधीनां ३-५ प्रतिशतः एव अस्ति।

     पुराणेषु उल्लेखः अस्ति यत् लोम्नः चरमावस्था अयमस्ति यत् लोमगर्तः नक्षत्रज्योतियुक्तः भवति। स्वयं लोमः किं भवति, किं लोमः प्रकाशगमनस्य अक्षितमाध्यमः भवति, अस्य उल्लेखं नास्ति।

     स्कन्दपुराणे ५.१.४५.१ कथनमस्ति यत् एका कुमुद्वतीपुरी अस्ति। तस्यां तपःकरणस्य परिणामं अयं भवति यत् तस्याः पुर्याः रूपान्तरणं पद्मापुर्यां भवति। पुराणेषु प्रसिद्धः अस्ति यत् कुमुदस्य (उत्पलस्य) विकसनं रात्र्यामेव भवति, पद्मस्य दिवसे। अस्य कथनस्य वक्ता लोमशः अस्ति।

     योगवासिष्ठे ६.२.४४.५  कथनमस्ति यत् यदा चित्ते समाधिबीजस्य वपनं भवति, तदैव चित्याः सर्जनं भवति - समाधिबीजं संसारनिर्वेदः पतति स्वयम् । चित्तभूमौ विविक्तायां विवेकिजनकानने ।

संदर्भाः

लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।

असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥शौअ ४.१२.

हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।

अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥५.५.

यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।

ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥१२.४.

स आत्मन्नेवाहुतिमीषे स उदमृष्ट तद्यदुदमृष्ट तस्मादिदं चालोमकमिदं च तत्र विवेद घृताहुति वैव प हुतिं वोभयं ह त्वेव तत्पय एव - २.२.४.४

सर्वे श्यामाः । द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै मिथुनं प्रजननं प्रजननं प्रजापतिः प्राजापत्या एते तस्मात्सर्वे श्यामा भवन्ति - ५.१.३.९

स हि पौष्णो यच्छ्यामो द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै मिथुनं प्रजननं वै पूषा पशवो हि पूषा पशवो हि प्रजननम्मिथुनमेवैतत्प्रजननं क्रियते तस्माच्छ्यामो गौर्दक्षिणा - ५.२.५.८

पञ्च तन्वो व्यस्रंसन्त लोम त्वङ्मांसमस्थि मज्जा ता एवैताः पञ्च चितयस्तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यच्चिनोति तस्माच्चितयः - ६.१.२.१७

अथैनं कृष्णाजिने सम्भरति । यज्ञ वै कृष्णाजिनं यज्ञ एवैनमेतत्सम्भरति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरति तत्तूष्णीमुपस्तृणाति - मा.श. ६.४.१.६

अथाजलोमैः संसृजति । स्थेम्ने न्वेव यद्वेवाजलोमैरेतद्वा एनं देवाः पशुभ्योऽधि समभरंस्तथैवैनमयमेतत्पशुभ्योऽधि सम्भरति तद्यदजलोमैरेवाजे हि सर्वेषां पशूनां रूपमथ यल्लोम लोम हि रूपम् माश ६.५.१.४

कृष्णाजिने निष्यूतो भवति । यज्ञो वै कृष्णाजिनं यज्ञो वा एतं यन्तुमर्हति यज्ञेनैतं देवा अबिभरुर्यज्ञेनैवैतमेतद्बिभर्ति लोमतश्छन्दांसि वै लोमानि छन्दांसि वा एतं यन्तुमर्हन्ति च्छन्दोभिरेतं देवा अबिभरुश्छन्दोभिरेवैनमेतद्बिभर्ति माश ६.७.१.६

अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति । ऋक्सामयोर्हैते रूपे ऋक्सामे वाऽएतं यन्तुमर्हत ऋक्सामाभ्यामेतं देवा अबिभरुर्ऋक्सामाभ्यामेवैनमेतद्बिभर्ति शाणो रुक्मपाशस्त्रिवृत्तस्योक्तो बन्धुः - ६.७.१.७

आप्यानवतीभ्यामभिमृश्य । प्रत्येत्यातिथ्येन प्रचरत्यातिथ्येन प्रचर्य प्रवर्ग्योपसद्भ्यां प्रचरति प्रवर्ग्योपसद्भ्यां प्रचर्याथैतां चर्मणि चितिं समवशमयन्ति तद्यच्चर्मणि चर्म वै रूपं रूपाणामुपाप्त्यै लोमतो लोम वै रूपं रूपाणामुपाप्त्यै रोहिते रोहिते ह सर्वाणि रूपाणि सर्वेषां रूपाणामुपाप्त्या आनडुहेऽग्निरेष यदनड्वानग्निरूपाणामुपाप्त्यै प्राचीनग्रीवे तद्धि देवत्रा – माश ७.३.२.१

तदग्रेण गार्हपत्यम् । अन्तर्वेद्युत्तरलोम प्राचीनग्रीवमुपस्तृणाति तदेतां चितिं समवशमयन्त्यथ प्रोक्षति तद्यत्प्रोक्षति शुद्धमेवैतन्मेध्यं करोत्याज्येन तद्धि शुद्धं मेध्यमथो - ७.३.२.२

तदाहुः । यदिमा आप एतानि मांसान्यथ क्व त्वक्व्व लोमेत्यन्नं वाव पशोस्त्वगन्नं लोम तद्यच्छन्दस्या उपदधाति सैव पशोस्त्वक्तल्लोमाथो यान्यमून्युखायामजलोमानि तानि लोमानि बाह्योखा भवत्यन्तराणि पशुशीर्षाणि बाह्यानि हि लोमान्यन्तर आत्मा यदीतरेण यदीतरेणेति ह स्माह शाण्डिल्यः सर्वानेव वयं कृत्स्नान्पशून्त्संस्कुर्म इति – माश ७.५.२.४३

 तदाहुः । कथमस्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्सूददोहा लोम पुरीषस्य यजुरन्नम् पुरीषमेवमु हास्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति- ८.१.४.५

 शतरुद्रियम् - परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किं चन हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते - ९.१.१.१०

इदमेवान्तरिक्षम् । तस्मादेतदलोमकमलोमकमिव ह्यन्तरिक्षं तदेतद्विश्वम् प्राण एव वायुः स नरः स मध्येनास्य भवति मध्येन ह्यन्तरिक्षस्य वायुः - ९.३.१.५

अथैनं कृष्णाजिनेऽभिषिञ्चति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतदभिषिञ्चति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतदभिषिञ्चत्युत्तरतस्तस्योपरि बन्धुः प्राचीनग्रीवे तद्धि देवत्रा – माश ९.३.४.१०

आसीनं भूतमभिषिञ्चेत् । आस्त इव वै भूतस्तिष्ठन्तं बुभूषन्तं तिष्ठतीव वै बुभूषन्बस्ताजिने पुष्टिकाममभिषिञ्चेत्कृष्णाजिने

ब्रह्मवर्चसकाममुभयोरुभयकामं तदुत्तरतः पुच्छस्योत्तरलोम प्राचीनग्रीवमुपस्तृणाति – माश ९.३.४.१४

तदेता वा अस्य ताः  पञ्च मर्त्यास्तन्व आसंलोम त्वङ्मांसमस्थि मज्जाथैता अमृता मनो वाक्प्राणश्चक्षुः श्रोत्रम् - १०.१.३.४

स होवाच शाण्डिल्यः  रूपं वाव लोमवद्रूपमलोमकं रूपमेवास्यैतदिति तद्वै तत्तथा यथा तच्छाण्डिल्य उवाच संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते – माश १०.१.४.११

तदाहुः  कथमेष सप्तविध एतया वेद्या सम्पद्यत इति दश वा इमे पुरुषे प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदश एवं द्वितीय एवं तृतीये षट्सु पुरुषेषु नवतिरथैकः पुरुषोऽत्येति पाङ्क्तो वै पुरुषो लोम त्वङ्मांसमस्थि मज्जा पाङ्क्तो इयं वेदिश्चतस्रो दिश आत्मा पञ्चम्येवमेष सप्तविध एतया वेद्या सम्पद्यते – माश १०.२.३.५

तस्य तपस्तेपानस्य  एभ्यो लोमगर्तेभ्य ऊर्ध्वानि ज्योतींष्यायंस्तद्यानि तानि ज्योतींष्येतानि तानि नक्षत्राणि यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः – माश १०.४.४.२

आत्मा ह त्वेवैषोऽग्निश्चितः  तस्यास्थीन्येव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्यास्थीनि मज्जानो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मज्जानोऽथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा प्राणः स तस्य त्रिंशदात्मन्विधाः प्रतिष्ठायां द्वे शीर्षन्द्वे तद्यत्ते द्वे भवतो द्विकपालं हि शिरोऽथ येनेमानि पर्वाणि संततानि तत्सूददोहा अथैतत्त्रयं येनायमात्मा प्रच्छन्नो लोम त्वङ्मांसमिति तत्पुरीषं यत्पिबति ता आहुतयो यदश्नाति ताः समिधोऽथ यदात्मेत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वमात्मेत्येवाख्यायते तत्सर्वोऽग्निर्लो.. माश १०.५.४.१२

स वै गौतमस्य पुत्र वृतो जनं धावयेत् यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासाम् पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्ते यस्माच्छीर्षण्येवाग्रे पलितो भवत्यथ पुनरुत्तमे वयसि सर्व एव पलितो भवति – माश ११.४.१.६

अथ यद्बर्हि स्तृणाति  तस्मादिमाः प्रजा लोमशा जायन्तेऽथ यत्पुनरिव प्रस्तरं स्तृणाति तस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्तेऽथ यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति तस्माच्छीर्षण्येवाग्रे पलितो भवत्यथ यत्सर्वमेव बर्हिरनुप्रहरति तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति – माश ११.४.१.१४

लोमभ्य एवास्य चित्तमस्रवत्, ते श्यामाका अभवन्। त्वच एवास्यापचितिरस्रवत्, सो ऽश्वत्थो वनस्पतिरभवत्। मांसेभ्य एवास्योर्गस्रवत्, स उदुंबरोऽभवत्। अस्थिभ्य एवास्य स्वधाऽस्रवत्, स न्यग्रोधोऽभवत्। मज्जभ्य एवास्य भक्षः सोमपीथोऽस्रवत्, ते व्रीहयोऽभवन्। एवमस्येन्द्रियाणि वीर्याणि व्युदक्रामन्॥१२.७.१.९

सौत्रामणी - तस्य लोमान्येव शष्पाणि। त्वक् तोक्मानि। मांसं लाजाः। अस्थि कारोतरः। मज्जा मासरम्। रसः परिस्रुत्। १२.९.१.

 आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम । केशा न शीर्षन् यशसे श्रियै शिखा सिम्̐हस्य लोम त्विषिर् इन्द्रियाणि ॥ - वा.सं. १९.९२  

 नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥ - वासं.  २३.३६

पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ २४.१

लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा । -  ३९.१० 

वेदिम् प्रोक्षति ।     ऋक्षा वा एषाऽलोमकाऽमेध्या यद् वेदिः ।     मेध्याम् एवैनां करोति     दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिर् आसाद्य प्रक्षति । - तै.सं. २.६.५.१

आयतने शमयति ।     अभिचरता प्रतिलोमम्̇ होतव्याः प्राणान् एवास्य प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते ३.४.८.५

ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासाव् आलभेत य एनयोर् अनुलोमं च प्रतिलोमं च विद्याद् इति । अमावास्याया ऊर्ध्वं तद् अनुलोमम् पौर्णमास्यै प्रतीचीनं तत् प्रतिलोमम् । यत् पौर्णमासीम् पूर्वाम् आलभेत प्रतिलोमम् एनाव् आ लभेतामुम् अपक्षीयमाणम् अन्व् अप  क्षीयेत सारस्वतौ होमौ पुरस्ताज् जुहुयाद् अमावास्या वै सरस्वत्य् अनुलोमम् एवैनाव् आ लभते ऽमुम् आप्यायमानम् अन्व् आ प्यायते । - तैसं ३.५.१.३

वज्री वा एष यद् अश्वः । दद्भिर् अन्यतोदद्भ्यो भूयाम्̐ लोमभिर् उभयादद्भ्यः । ५.१.२.

शुचार्पयति     तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाम्̇सः शुचा ह्य् ऋताः ।     लोमतः सम् भरत्य् अतो ह्य् अस्य मेध्यम् । ५.१.४.३

 उखानिर्माणम् - एषा वा अग्नेः प्रिया तनूर् यद् अजा    प्रिययैवैनं तनुवा सम्̇ सृजत्य् अथो तेजसा   कृष्णाजिनस्य लोमभिः सम्     सृजति     यज्ञो वै कृष्णाजिनम् । ५.१.६.२

लोमशं वै नामैतच् छन्दः प्रजापतेः    पशवो लोमशाः    पशून् एवाव रुन्द्धे - ५.१.८.

ते पत्नयो लोम वि चिन्वन्तु मनीषया । देवानाम् पत्नीर् दिशः सूचीभिः शिम्यन्तु त्वा ॥ - ५.१.११.२

त्वाष्ट्रौ लोमशसक्थौ ५.५.२३.१

तस्मान् नवनीतेनाभ्य् अङ्क्ते ।     अनुलोमम् ।     यजुषा    व्यावृत्त्यै । ६.१.१

यं कामयेत     पशुमान्त् स्यात् ॥     इति लोमतस् तस्य मिमीत ।     एतद् वै पशूनाम्̇ रूपम् । - ६.१.९

ऊर्ग् वै यवः     प्राणा उपरवाः     प्राणेष्व् एवोर्जं दधाति     बर्हिर् अव स्तृणाति     तस्माल् लोमशा अन्तरतः प्राणाः । ६.२.११

ऋक्षा वा इयम् अलोमकाऽऽसीत्     साकामयत ।     ओषधीभिर् वनस्पतिभिः प्र जायेयेति     सैतास् त्रिम्̇शतम्̇ रात्रीर् अपश्यत्     ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत ७.४.३.१

त्वङ्निरभिद्यत । त्वचो लोमानि । लोमभ्य ओषधिवनस्पतयः ।- ऐतरेयोपनिषत् १.१.४

लोम हिङ्कारः । त्वक्प्रस्तावः । मांसमुद्गीथः । अस्थि प्रतिहारः । मज्जा निधनम् । एतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ छा.उ. ,१९.१

स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतः । अलोमका हि योनिरन्तरतः ।- बृह.उप. १.४.६

स्थिभ्यः पर्वता लोमभ्य ओषधिवनस्पतयो – सुबालोपनिषत्