पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रयि

डा. गोपालकृष्ण भट्टस्य शोधप्रबन्धानुसारेण (Vedic Nighantu, Mangalore University, p. 107) रयिशब्दः ऋग्वेदे ३०० स्थानेषु अस्ति। वैदिकनिघण्टुमध्ये अस्य परिगणनं उदकनामेषु एवं धननामेषु भवति। किन्तु सायणभाष्ये न कुत्रापि अस्य विवेचनं उदक इव भवति। अपितु सर्वत्रैव पुत्रः, धनं, पशवः, अन्नं इत्यादिरूपेषु अस्ति। डा. फतहसिंहः कथयति यत् रातिः, रायः, रयि एते शब्दत्रयाः परस्परसंबद्धाः सन्ति। एषु त्रयेषु रयि-राययोः सम्बन्धं ऋचासु उपलब्धं भवति, किन्तु न रातिरय्योः। काशकृत्स्नधातुव्याख्याने १.४८५ रय धातुः गतौ अर्थे अस्ति, यस्य विस्तारः रयिः, रायिः द्वौ सुवर्णे । रयः--शीघ्रम् । रायः--भाग्यवान् रूपेण कृतमस्ति।

पुराणेषु रयिशब्दः अल्पसंख्यायामेवास्ति। अयं प्रतीयते यत् पुराणेषु रयिशब्दस्य विवेचनं रैवत(रयिवत्), रेवती(रयिवती) आदि शब्देभ्यः अस्ति। रेवतीशब्दोपरि टिप्पणी पठनीया अस्ति।

     प्रश्नोपनिषदे कथनमस्ति यत् मुक्तिप्राप्त्यै मार्गद्यौ स्तः – प्राणः एवं रयिः।  

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥प्रश्नोपनिषत् १.५॥ एकः देवयानमार्गः अस्ति, द्वितीयः पितृयानः।

     तैत्तिरीयब्राह्मणे कथनमस्ति –

पर्णं वनस्पतेरिव अभि नः शीयताँ रयिः । सचतां नः शचीपतिः । - तैब्रा. ३.७.१४.५

अत्र सायणभाष्ये शीयतां शब्दस्य विवेचनं पततुरूपेण कृतमस्ति। किन्तु क्षि – निवासे (काशकृत्स्नधातुपाठः ५.१७) धातुरूपेण अस्य विवेचनं न पततु इति कर्तुं शक्यन्ते। पर्णः वनस्पतिं स्थैर्यं ददाति।

     कर्मकाण्डे रय्याः अस्तित्वं पृष्ठेषु भवति –

प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते। - ऋ. २.०१३.०४

त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम्। मिमीते अस्य योजना वि सुक्रतुः॥ ९.१०२.०३

यथा पृष्ठः अदृश्यं एव वर्तते, एवंप्रकारेण चेतनायां यत्किंचित् अदृश्यमस्ति, तस्य सर्वस्य संज्ञा पृष्ठः अस्ति। सोमयागे सुत्यादिवसानां द्विप्रकारौ भवतः – अभिप्लव षडह एवं पृष्ठ्यषडह। अभिप्लवे साधनायाः विकासः प्लवनया भवति, कूर्दनेन। पृष्ठ्यषडहस्य षष्ठे अह्नि रेवतीषु वारवन्तीयं सामगानं भवति। अस्मिन् अह्नि शिल्पानां आविर्भावं भवति। शिल्पः अर्थात् चेतनायां या ज्योतिः अपरिष्कृता आसीत्, तस्याः परिष्करणम्, तक्षणम्। अधिकं रेवतीशब्दस्य टिप्पण्यां पठनीयमस्ति। ऋग्वेदस्य अनेकासु ऋचासु अयं कार्यं ऋभवः कुर्वन्ति।

     ऋग्वेदे १०.११७ सूक्तं भिक्षुसंज्ञकस्य ऋषेः अस्ति। अस्य प्रथमा ऋचा अस्ति –

न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१०.११७.

अस्यां ऋचि भिक्षु, क्षुधा एवं रय्याः किं सम्बन्धं अस्ति, अयं न स्पष्टं अस्ति। अयं संभवमस्ति यत् क्षुधायाः सम्बन्धं प्राणतः, आदित्यतः अस्ति। देवयानमार्गः क्षुधायाः अपेक्षा करोति। अन्यपक्षे रय्याः, पितृयानस्य मार्गमस्ति। अत्र कथनमस्ति यत् यदि रय्याः पृणनं भवेत्, तदा तस्याः क्षीणनं न भवेत्। पृणतः शब्दस्य व्याख्याने प्रीञ् --तर्पणे (काश.धापा. ९.३२२) उपयुक्तं प्रतीयते। दस्यति, नष्टं भवति। रय्याः पृणनं केन प्रकारेण भवेत्। अस्मिन् संदर्भे ऋग्वेदे रयि एवं इषशब्दयोः सह उल्लेखं भवति—

इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान्॥ ६.०६८.०५

युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू। ता नः पृङ्क्तमिषा रयिम्॥ ८.००५.३६

 

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्। इषं स्तोतृभ्य आ भर॥ ९.०२०.०४

यथा इषःशब्दस्य टिप्पण्यां कथितमस्ति, वैदिकवाङ्मये भौतिकार्थे इषः शब्दः वर्षाअर्थे प्रयुज्यते। इषोपरान्ते पृथिव्योपरि वनस्पतीनां वर्धनं भवति यस्य संज्ञा ऊर्क् इति भवति (इष – ऊर्ज आश्विन् – कार्तिकमासयोः संज्ञापि अस्ति)। भौतिकरूपे या इषः वृष्टिरस्ति, आध्यात्मिकरूपे सा अभीप्सा अस्ति, यथा मण्डूकस्य अभीप्सा वर्षणस्य। शतपथब्राह्मणे कथनमस्ति –

ऊर्गिति देवा रयिरिति मनुष्याः (उपासते) – माश १०.५.२.२०

अर्थात् इषस्य परिणामस्वरूपेण यस्याः ऊर्जायाः, वनस्पत्याः विकासं भविष्यति, तत् देवयानस्य मार्गमस्ति। यस्य रय्याः विकासं भविष्यति, तत् मनुष्याणां मार्गमस्ति। तैब्रा. ३.७.१४.५ अनुसारेण  रयिः वनस्पत्योः पर्णस्वरूपा अस्ति। रय्याः वर्धनाय अयं आवश्यकं अस्ति यत् द्वेषः नष्टं भवेत्। आधुनिकविज्ञाने या ऊर्जा व्यवस्थितारहिता अस्ति, तस्य संज्ञा द्वेषः अस्ति। अनेन कारणेनैव पुराणेषु या रेवती अस्ति, सा शेषनागस्य पत्नी अस्ति।

 

संदर्भाः

अग्निना रयिमश्नवत्पोषमेव दिवेदिवे।

यशसं वीरवत्तमम्॥ १.००१.०३

या दस्रा सिन्धुमातरा मनोतरा रयीणाम्।

धिया देवा वसुविदा॥ १.०४६.०२

रयीणां धनानां “मनोतरा मनसा तारयितारौ

क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः।

रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति॥ १.०५८.०३

रयिषाट् रयीणां शत्रुधनानामभिभविता 

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम्।

द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा॥ १.०६०.०१

रातिं "भरत् मित्रमहरत् । अकरोदित्यर्थः।

उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु।

दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम्॥ १.०६०.०४

तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः।

आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६०.०५

विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः।

अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः॥ १.०६४.१०

नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त।

सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६४.१५

ऋतीषाहं गन्तॄणां शत्रूणामभिभवितारं एवंविधं “रयिं पुत्रलक्षणं धनम्

रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः॥ १.०६६.०१

रयिर्न धनमिव “चित्रा चायनीयो विचित्ररूपो वा

होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम्॥ १.०६८.०७

स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः॥ १.०७०.०५

क्षपा इति रात्रिनाम

नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि।

अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा॥ १.०७२.०१

रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः।

स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत्॥ १.०७३.०१

तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु।

अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम्॥ १.०७३.०४

उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम्।

सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम्॥ १.०९२.०८

अश्वबुध्यम् । अश्वा बुध्या बोद्धव्या येन धनेन तादृशम् ।

नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम्।

सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम्॥ १.०९६.०७

नू “च अद्य अस्मिन्काले “पुरा “च "रयीणां सर्वेषां धनानां "सदनम् आवासस्थानं 

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम्।

अप नः शोशुचदघम्॥ १.०९७.०१

चास्माकं "रयिं धनम् “आ समन्तात् “शुशुग्धि प्रकाशय । ... शुशुग्धि । शुच दीप्तौ ।

त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये।

शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः।

अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर॥ १.१२७.०९

रयिर्न “देवतातये । धनं यथा यज्ञार्थमुत्पद्यते ।

विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते।

अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे॥ १.१२८.०१

श्रवस्यते अतिप्रसिद्धान्नमात्मनः इच्छते यजमानाय “रयिरिव धनस्थानीयो भवति । धनं यथा सख्यम् अन्नसमृद्धिं च साधयति तद्वत् अयमग्निरपि तस्मै द्वयं साधयतीत्यर्थः

वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम्।

दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि।

आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः॥ १.१२९.०७

वयमपि हे "रयिवः विशिष्टधनवन्निन्द्र “रयिं धनं “वनेम संभजेम । कीदृशं रयिम् । “सुवीर्यं शोभनसामर्योन्पेतं “रण्वं रमणीयं गन्तव्यं वा अर्थिभिः “सन्तं सर्वदा वर्तमानं यज्ञादिद्वारा बहुशः दीयमानमपि प्रवर्धमानम् ।

सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम्।

अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान्॥ १.१६२.२२

विश्वापुषं “रयिं विश्वस्य पोषकं धनं “कृणोतु करोतु

प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता।

धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम॥ १.१८०.०९

त्वदनुग्रहात् “रयिसाचः धनसमवायिनः “स्याम भवेम 

कदु प्रेष्ठाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम्।

अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम्॥ १.१८१.०१

प्रेष्ठौ प्रियतमौ

त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः।

त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या॥ २.००१.०३

त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः।

त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः॥ २.००१.१२

श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर।

वसो पुरुस्पृहं रयिम्॥ २.००७.०१

पुरुस्पृहं बहुभिरर्थिभिः स्पृहणीयं

अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः।

त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता॥ २.००९.०४

प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते।

असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः॥ २.०१३.०४

स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति।

त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार॥ २.०१५.०५

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे।

पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम्॥ २.०२१.०६

भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः।

आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम॥ २.०३८.१०

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः।

जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्॥ २.०४०.०१

धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु।

अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः॥ २.०४०.०६

नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम।

युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा॥ ३.०५४.१६

अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति।

सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे॥ ३.०६२.०२

रयीयन् रयिमात्मन इच्छन्

अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः।

अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः॥ ३.०६२.०३

रयिः पुत्रपौत्रयुक्तः पशुसंघः

गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।

इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान्॥ ४.००२.०५

"दीर्घः अविच्छिन्नानुष्ठानोपेतः "रयिः धनवान् ।

विदानासो जन्मनो वाजरत्ना उत ऋतुभिर्ऋभवो मादयध्वम्।

सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम्॥ ४.०३४.०२

सुवीरां शोभनैर्वीरैः पुत्रैः उपेतां “रयिं धनम् “एरयध्वं प्रेरयत

यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय।

तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः॥ ४.०३५.०६

सर्ववीरं बहुपुत्रोपेतं “रयिं धनं

ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः।

विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः॥ ४.०३६.०५

इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः।

येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः॥ ४.०३६.०९

तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम्।

समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये॥ ४.०३७.०८

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः।

बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्॥ ४.०५०.०६

आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम्।

स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु॥ ४.०५३.०७

त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः।

संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः॥ ५.००३.०८

यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम्।

तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम्॥ ५.०२०.०१

अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम्।

विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत्॥ ५.०२३.०१

सहन्तं शत्रूनभिभवन्तं "रयिं पुत्रं

तमग्ने पृतनाषहं रयिं सहस्व आ भर।

त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः॥ ५.०२३.०२

स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम्।

धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम्॥ ५.०३६.०१

एष ते देव नेता रथस्पतिः शं रयिः।

शं राये शं स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे॥ ५.०५०.०५

यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः।

जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम्॥ ५.०५५.१०

एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे।

पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति॥ ५.०८०.०३

अस्रेधन्ती अशुष्यन्त्यक्षीणा वा । किम् । “रयिं धनम् "अप्रायु अप्रगन्तृ अविचलितं “चक्रे करोति

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम्।

प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम्॥ ६.००१.०८

अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम्।

अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते॥ ६.००५.०७

नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त।

वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः॥ ६.००७.०२

त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः।

श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम्॥ ६.०१३.०१

अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति।

सहावा यस्यावृतो रयिर्वाजेष्ववृतः॥ ६.०१४.०५

सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री॥ ६.०१५.१२

अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम्।

अग्निर्नो वनते रयिम्॥ ६.०१६.२८

सुवीरं रयिमा भर जातवेदो विचर्षणे।

जहि रक्षांसि सुक्रतो॥ ६.०१६.२९

द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान्।

तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम्॥ ६.०२०.०१

इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते।

धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या॥ ६.०२१.०१

इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति।

भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्॥ ६.०२८.०२

अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः।

वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः॥ ६.०३१.०१

यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः।

सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः॥ ६.०४४.०१

प्रत्नं रयीणां युजं सखायं कीरिचोदनम्।

ब्रह्मवाहस्तमं हुवे॥ ६.०४५.१९

धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम्।

माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि॥ ६.०४७.०६

उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै।

उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम्॥ ६.०६०.१३

स इत्सुदानुः स्ववाँ ऋतावेन्द्रा यो वां वरुण दाशति त्मन्।

इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान्॥ ६.०६८.०५

यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम्।

अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः॥ ६.०६८.०६

उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात्।

येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः॥ ६.०६८.०७

नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा।

इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम॥ ६.०६८.०८

ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा।

संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम्॥ ६.०७०.०६

सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री॥ ७.००४.०९

त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः।

पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम्॥ ७.००५.०५

स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा।

अग्रे यज्ञस्य शोचतः॥ ७.०१५.०५

न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत्।

सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि॥ ७.०३२.२१

ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन्।

धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः॥ ७.०३९.०६

एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः।

दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः॥ ७.०७६.०७

यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः।

सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः॥ ७.०७७.०६

कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता।

उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतम्॥ ७.०८४.०३

पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः।

ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः॥ ७.०९१.०३

आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम्

वोळ्हमश्वावतीरिषः॥ ८.००५.१०

युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू।

ता नः पृङ्क्तमिषा रयिम्॥ ८.००५.३६

पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम्।

स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम्॥ ८.००८.१२

प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः।

त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम्॥ ८.०१९.०८

यथा वरो सुषाम्णे सनिभ्य आवहो रयिम्।

व्यश्वेभ्यः सुभगे वाजिनीवति॥ ८.०२४.२८

ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः।

उरुरध्वा स्वस्तये॥ ८.०३१.११

इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम्।

येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे॥ ८.०४०.०१

एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि।

त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम्॥ ८.०४०.१२

त्वां हि सत्यमद्रिवो विद्म दातारमिषाम्।

विद्म दातारं रयीणाम्॥ ८.०४६.०२

प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर।

रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते॥ ८.०४६.१९

त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ।

तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्॥ ८.०४८.१३

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः।

तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः॥ ८.०५१.०९

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः॥ ८.०५१.१०

अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः।

मूर्धा कवी रयीणाम्॥ ८.०७५.०४

कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम्।

उरुकृदुरु णस्कृधि॥ ८.०७५.११

त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे।

स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि॥ ८.०९०.०४

इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम्।

वाजी ददातु वाजिनम्॥ ८.०९३.३४

रयिं दातारम् “ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशमेतन्नामकं देवं “नः अस्मभ्यम् “इषे अन्नार्थं “ददातु प्रयच्छतु 

अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम्।

अथा नो वस्यसस्कृधि॥ ९.००४.०७

द्विबर्हसं द्वयोर्द्यावापृथिव्योः स्थानयोः परिवृढं “रयिं धनम् “अभ्यर्ष अस्मानभिगमय

अभ्यर्षानपच्युतो रयिं समत्सु सासहिः।

अथा नो वस्यसस्कृधि॥ ९.००४.०८

रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर।

अथा नो वस्यसस्कृधि॥ ९.००४.१०

ईळेन्यः पवमानो रयिर्वि राजति द्युमान्।

मधोर्धाराभिरोजसा॥ ९.००५.०३

उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु।

पवमान विदा रयिम्॥ ९.०१९.०६

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्

इषं स्तोतृभ्य आ भर॥ ९.०२०.०४

पुनान इन्दवा भर सोम द्विबर्हसं रयिम्।

वृषन्निन्दो न उक्थ्यम्॥ ९.०४०.०६

पवमान विदा रयिमस्मभ्यं सोम सुश्रियम्।

इन्दो सहस्रवर्चसम्॥ ९.०४३.०४

सिषासतू रयीणां वाजेष्वर्वतामिव।

भरेषु जिग्युषामसि॥ ९.०४७.०५

अतस्त्वा रयिमभि राजानं सुक्रतो दिवः।

सुपर्णो अव्यथिर्भरत्॥ ९.०४८.०३

पवमान विदा रयिमस्मभ्यं सोम दुष्टरम्।

यो दूणाशो वनुष्यता॥ ९.०६३.११

अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम्।

अभि वाजमुत श्रवः॥ ९.०६३.१२

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा।

पान्तमा पुरुस्पृहम्॥ ९.०६५.३०

परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः।

यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः॥ ९.०६८.०८

एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ ९.०६८.१०

स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः।

रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनाम्॥ ९.०९३.०४

नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम्।

प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात्॥ ९.०९३.०५

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्।

द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः॥ ९.०९७.२४

अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम्।

इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम्॥ ९.०९८.०१

पुनान इन्दवा भर सोम द्विबर्हसं रयिम्।

त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे॥ ९.१००.०२

सहस्रधारः पवते समुद्रो वाचमीङ्खयः।

सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे॥ ९.१०१.०६

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति।

पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे॥ ९.१०१.०७

त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम्

मिमीते अस्य योजना वि सुक्रतुः॥ ९.१०२.०३

पृष्ठेषु सामसु रयिं दातारमिन्द्रम् “ “ईरय आगमय

जज्ञानं सप्त मातरो वेधामशासत श्रिये।

अयं ध्रुवो रयीणां चिकेत यत्॥ ९.१०२.०४

आ नः सुतास इन्दवः पुनाना धावता रयिम्।

वृष्टिद्यावो रीत्यापः स्वर्विदः॥ ९.१०६.०९

एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे।

सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः॥ १०.००५.०१

नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः

अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम्॥ १०.०१९.०१

पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ।

इहैवाग्ने नि धारयेह तिष्ठतु या रयिः॥ १०.०१९.०३

ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन।

जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.१०

स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम्।

स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि॥ १०.०३८.०२

गोअर्णसम् । गावोऽर्णं उदकमिव प्रवृद्धा यस्मिन् 

श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः।

वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः॥ १०.०४५.०५

अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ १०.०४५.१२

जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥१॥
स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥२॥
सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र ।
श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥३॥

अस्मभ्यं “चित्रं पूज्यं “वृषण वर्षकं पुत्रं “रयिं धनं च “दाः देहि । 
सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् ।
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥४॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र ।
भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥५॥
प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।
य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥६॥
वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥७॥
यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् ।
अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०.४७.

वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः।

अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः॥ १०.०७४.०१

अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः।

वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम्॥ १०.०९१.१५

वाजसनिम् अन्नस्य दातारं 

न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१०.११७.

पृणतः प्रयच्छतः पुरुषस्य “रयिः धनं “नोप “दस्यति नोपक्षीयते । ‘ दसु उपक्षये । दैवादिकः 

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव।

यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्॥ १०.१२१.१०

सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व।

सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व॥ १०.१२२.०३

इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः।

रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम्॥ १०.१४०.०५

सानसिं संभक्तव्यं “रयिं धनं च “दधासि स्तोतृभ्यो ददासि

१. अथ  होवाच सत्ययज्ञं पौलुषिम्। प्राचीनयोग्य कं त्वं वैश्वानरं वेत्थेत्यप एव राजन्निति होवाचोमिति होवाचैष वै रयिर्वैश्वानर  (आपः)। माश १०, , ,

२. धर्मासि दिशो दृ , रयिं देहि पोषं देहि । काठ , ; क १, ७ ॥

३. बृहदुपस्थानम्-- तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति पुष्टं वै रयिः । माश २, , , १३

४. धियं पूषा जिन्वतु विश्वमिन्वो रयि सोमो रयिपतिर्दधातु । मै , १४, ; तै २, , , ६।

५. वसिष्ठो वै रयिमपश्यत् , तामात्मन्नधत्त, यत्स्थूणाकर्णीः कुरुते, पशुष्वेव रयिं धत्ते । मै ४, , ९।

६. तस्यै सप्तदशैव सामिधेन्यो भवन्ति रयिमन्तावाज्यभागौ वीर्यं वै रयिः । माश १३, ,, १३

आहवनीयोपस्थानम् -- अयं ते योनिर् ऋत्विय इत्य् आह पशवो वै रयिः। तैसं १.५.७.२, जै १.२२६, तै १.४.४.९

क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिः – जै १.२४३

ऊर्गिति देवा रयिरिति मनुष्याः (उपासते) – माश १०.५.२.२०

रयि-ष्ठ,ष्ठा( सामन्-)

१. अजा ऽसि रयिष्ठेत्याहैष्वेवैनां लोकेषु प्रतिष्ठापयति । तैसं ३, , , ६ ।

२. सो ( प्रजापतिः) ऽब्रवीद् अस्थाद् वा इयं मयि रयिरिति । तद् एव रयिष्ठस्य

रयिष्ठत्वम् । तदेतत् पशव्यं साम । जै ३, २३० ॥

पशवो वै रयिष्ठम् – तां १४.११.३१

अथ होवाच बुडिलमाश्वतराश्विम् । वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति । अप एव भगवो राजन्निति होवाच । एष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।

तस्मात्त्वं रयिमान् पुष्टिमानसि ॥ छा.उ. ,१६.१

बस्तिरेव रयिः – छांउ ५.१८.२

अयं ते योनिर्ऋत्विजो यतो जातः अरोचथाः । तं  जानन्नग्न आरोहाथा नो वर्धय रयिम् । इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥ एष वा अग्नेर्योनिर्यः प्राणं -जाबालोपनिषत् ४, याज्ञवल्क्योपनिषत् २

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥प्रश्नोपनिषत् १.५

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राण - प्रश्नोपनिषत्

एष ह वै रयिर्यः पितृयाणः ॥ प्रश्नोपनिषत् १.९

रयिर्गुरूपदेशाख्यं धनं तत्रैव तिष्ठति ॥याज्ञिक्युपनिषद् ४८३

जिज्ञासक्लृप्त ऋतजा रयिष्ठाः श्रद्धा सत्यो पहस्वान्तमसोपरिष्टात् । - महानारायणोपनिषत् ७९.१६

ऊर्गिति देवाः । रयिरिति मनुष्याः । - मुद्गलोपनिषत् ३.२

पर्णं वनस्पतेरिवाभि नः शीयतां ꣳरयिः सचतां नः शचीपतिः ॥ १॥ महानारायणोपनिषत् पञ्चचत्वारिंशोऽनुवाकः

पर्णं वनस्पतेरिव अभि नः शीयताँ रयिः । सचतां नः शचीपतिः । - तैब्रा. ३.७.१४.५

शीयतां – पततु स्वयमेवागच्छतु – सा.भा.