पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रत्न

ऋग्वेदस्य प्रथमायां ऋचायां कथनं अस्ति – होतारं रत्नधातमम्। रत्नधारकस्य अग्नेः किं लक्षणाः भवन्ति। पुराणेषु (पद्मपुराणम् १.२१.१७२, भविष्यपुराणम् ४.२०२, मत्स्य ९०) अस्य उत्तरं रत्नाचलनिर्माणरूपे अस्ति। अचलः भूम्याः शासनं करोति, एवं पुराणेषु ख्यातमस्ति। एवमेव, वैदिकसाहित्ये, अग्निः पृथिव्याः शासनं करोति, एवं ख्यातमस्ति।

 

रत्नसम्बन्धे ऋग्वेदस्य अयं ऋचा आधारभूतं प्रतीयते -

अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।

भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥ - ऋ. ७.३८.६

इयानः अस्माभिर्याच्यमानः जास्पतिः प्रजानां पालकः सविता देवः सवितुः देवस्य स्वस्य सम्बन्धि रत्नं रमणीयं तत् प्रसिद्धं धनं नः अस्माकं अनु मंसीष्ट अनुमन्यताम्। उग्रः ओजस्वी स्तोता भगं भजनीयं सवितारं भगसंज्ञकं देवं वा अवसे नो अस्माकं रक्षणाय जोहवीति भृशं ह्वयति। अध अपि च अनुग्रः असमर्थः स्तोता भगम् एतत्संज्ञकं सवितारं वा रत्नं रमणीयं तत्प्रसिद्धं धनं याति याचते। (सायणभाष्यः)।

वैदिक निघण्टु मध्ये रत्न शब्दस्य वर्गीकरणं धन नामेषु अस्ति। अर्थात् यदा तन्त्रस्य स्थितिः धनात्मकं भविष्यति, तदैव रत्नस्य उत्पत्तिः भविष्यति। न ऋणात्मकस्य तन्त्रात्। अनेनानुसारेण, यः भगः(भाग्यः) उग्रमस्ति, तत् शत्रुनाशकारकं भवितुमर्हति। यः भगः अनुग्रमस्ति, तत् रत्नरूपे परिवर्तितुं अर्हति। अत्र उग्रं – अनुग्रं शब्दाः आधुनिक भौतिक विज्ञानस्य एण्ट्रांपी, अव्यवस्था आधारेण संजानीयाः। स्कन्द पुराणस्य ४.१.३३.१६४ अयं कथनं महत्त्वपूर्णमस्ति यत् पुरुषार्थस्य महारत्नं निर्वाणमस्ति।

     पुराणेषु चक्रवर्ती राजा हेतु सप्त प्राणिक एवं सप्त अप्राणिक रत्नानां कथनमस्ति। शतपथ ब्राह्मणे प्राणिक रत्नानां संख्या एकादशमस्ति। प्राणिक रत्नानां जननं केन प्रकारेण भवितुं शक्यते, तेषां के लाभाः सन्ति, अयं अन्वेषणीयः।

प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।

याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥७.७५.६॥

नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।

मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥ - ऋ. ,०७५.०८  

सोमारुद्रा धारयेथां असुर्यं प्र वां इष्टयोऽरमश्नुवन्तु ।
दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ - मै.सं. ४.११.२

अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यानि नाम।

दमे दमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमुच्चरण्यत्  – काठ.सं. ४.१६

५.३.१ रत्नयागाः

अरण्योरग्नी समारोह्य । सेनान्यो गृहान्परेत्याग्नयेऽनीकवतेऽष्टाकपालम्पुरोडाशं निर्वपत्यग्निर्वै देवतानामनीकं सेनाया वै सेनानीरनीकं तस्मादग्नयेऽनीकवत एतद्वा अस्यैकं रत्नं यत्सेनानीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा – शब्रा ५.३.१.[१]

अथ श्वो भूते । पुरोहितस्य गृहान्परेत्य बार्हस्पत्यं चरुं निर्वपति बृहस्पतिर्वै देवानां पुरोहित एष वा एतस्य पुरोहितो भवति तस्माद्बार्हस्पत्यो भवत्येतद्वा अस्यैकं रत्नं यत्पुरोहितस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थास्तस्माच्छितिपृष्ठो बार्हस्पत्यस्य दक्षिणा - ५.३.१.[२]

अथ श्वो भूते । सूयमानस्य गृह ऐन्द्रमेकादशकपालं पुरोडाशं निर्वपति क्षत्रं वा इन्द्रः क्षत्रं सूयमानस्तस्मादैन्द्रो भवति तस्यर्षभो दक्षिणा स ह्यैन्द्रो यदृषभः - ५.३.१.[३]

अथ श्वो भूते । महिष्यै गृहान्परेत्य आदित्यं चरुं निर्वपतीयं वै पृथिव्यदितिः सेयं देवानां पत्न्येषा वा एतस्य पत्नी भवति तस्मादादित्यो भवत्येतद्वा अस्यैकं रत्नं यन्महिषी तस्या एवैतेन सूयते तां स्वामनपक्रमिणीं कुरुते तस्यै धेनुर्दक्षिणा धेनुरिव वा इयं मनुष्येभ्यः सर्वान्कामान्दुहे माता धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणा - ५.३.१.[४]

अथ श्वो भूते । सूतस्य गृहान्परेत्य वारुणं यवमयं चरुं निर्वपति सवो वै सूतः सवो वै देवानां वरुणस्तस्माद्वारुणो भवत्येतद्वा अस्यैकं रत्नं यत्सूतस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्याश्वो दक्षिणा स हि वारुणो यदश्वः - ५.३.१.[५]

अथ श्वो भूते । ग्रामण्यो गृहान्परेत्य मारुतं सप्तकपालं पुरोडाशं निर्वपति विशो वै मरुतो वैश्यो वै ग्रामणीस्तस्मान्मारुतो भवत्येतद्वा अस्यैकं रत्नं यद्ग्रामणीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां यत्पृषतो गोर्विशो वै मरुतो भूमो वै विट्तस्मात्पृषन्गौर्दक्षिणा - ५.३.१.[६]

अथ श्वो भूते । क्षत्तुर्गृहान्परेत्य सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति सविता वै देवानां प्रसविता प्रसविता वै क्षत्ता तस्मात्सावित्रो भवत्येतद्वा अस्यैकं रत्नं यत्क्षत्ता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्येतोऽनड्वान्दक्षिणैष वै सविता य एष तपत्येति वा एष एत्यनड्वान्युक्तस्तद्यच्छ्येतो भवति श्येत इव ह्येष उद्यंश्चास्तं च यन्भवति तस्माच्छ्येतोऽनड्वान्दक्षिणा - ५.३.१.[७]

अथ श्वो भूते । संग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालं पुरोडाशं निर्वपति सयोनी वा अश्विनौ सयोनी सव्यष्टृसारथी समानं हि रथमधितिष्ठतस्तस्मादाश्विनो भवत्येतद्वा अस्यैकं रत्नं यत्संग्रहीता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य यमौ गावौ दक्षिणा तौ हि सयोनी यद्यमौ यदि यमौ न विन्देदप्यनूचीनगर्भावेव गावौ दक्षिणा स्यातां ता उ ह्यपि समानयोनी - ५.३.१.[८]

अथ श्वो भूते । भागदुघस्य गृहान्परेत्य पौष्णं चरुं निर्वपति पूषा वै देवानां भागदुघ एष वा एतस्य भागदुघो भवति तस्मात्पौष्णो भवत्येतद्वा अस्यैकं रत्नं यद्भागदुघस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्यामो गौर्दक्षिणा तस्यासावेव बन्धुर्योऽसौ त्रिषंयुक्तेषु - ५.३.१.[९]

अथ श्वो भूते । अक्षावापस्य च गृहेभ्यो गोविकर्तस्य च गवेधुकाः सम्भृत्य सूयमानस्य गृहे रौद्रं गावेधुकं चरुं निर्वपति ते वा एते द्वे सती रत्ने एकं करोति सम्पदः कामाय तद्यदेतेन यजते यां वा इमां सभायां घ्नन्ति रुद्रो हैतामभिमन्यतेऽग्निर्वै रुद्रोऽधिदेवनं वा अग्निस्तस्यैतेऽङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते यो वैतदेवं वेदैतद्वा अस्यैकं रत्नं यदक्षावापश्च गोविकर्तश्च ताभ्यामेवैतेन सूयते तौ स्वावनपक्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा शितिबाहुर्वा शितिबालो वासिर्नखरो बालदाम्नाक्षावपनं प्रबद्धमेतदु हि तयोर्भवति - ५.३.१.[१०]

अथ श्वो भूते । पालागलस्य गृहान्परेत्य चतुर्गृहीतमाज्यं गृहीत्वाध्वन आज्यं जुहोति जुषाणोऽध्वाज्यस्य वेतु स्वाहेति प्रहेयो वै पालागलोऽध्वानं वै प्रहित एति तस्मादध्वन आज्यं जुहोत्येतद्वा अस्यैकं रत्नं यत्पालागलस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य दक्षिणाऽप्युक्ष्णवेष्टितं धनुश्चर्ममया बाणवन्तो लोहित उष्णीष एतदु हि तस्य भवति - ५.३.१.[११]

तानि वा एतानि । एकादश रत्नानि सम्पादयत्येकादशाक्षरा वै त्रिष्टुब्वीर्यं त्रिष्टुब्वीर्यमेवैतद्रत्नान्यभिसम्पादयति तद्यद्रत्निनां हविर्भिर्यजत एतेषां वै राजा भवति तेभ्य एवैतेन सूयते तान्त्स्वाननपक्रमिणः कुरुते - ५.३.१.[१२]

अथ श्वो भूते । परिवृत्त्यै गृहान्परेत्य नैर्ऋतं चरुं निर्वपति या वा अपुत्रा पत्नी सा परिवृत्ती स कृष्णानां व्रीहीणां नखैर्निर्भिद्य तण्डुलान्नैर्ऋतं चरुं श्रपयति स जुहोत्येष ते निर्ऋते भागस्तं जुषस्व स्वाहेति या वा अपुत्रा पत्नी सा निर्ऋतिगृहीता तद्यदेवास्य अत्र नैर्ऋतं रूपं तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न गृह्णाति तस्य दक्षिणा कृष्णा गौः परिमूर्णी पर्यारिणी सा ह्यपि निर्ऋतिगृहीता तामाह मामेऽद्येशायां वात्सीदिति तत्पाप्मानमपादत्ते - ५.३.१.[१३]

 

जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते – महाभारत वनपर्व २७५.३९टीका

एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच – ऐ.ब्रा. ८.२१

दधाति रत्नं स्वधयोर् अपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इति। रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव। - जै.ब्रा. ३.१३५

वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् ।

कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥

एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।
रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ ६-९६॥
दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् ।
शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६-९७॥
इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।
मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६-९८॥
मसूरमात्रमपि यः पद्मरागं सुशोभनम् ।
निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ ६-९९॥
निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् ।
भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६-१००॥
कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् ।
शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ ६-१०१॥
हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् ।
निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६-१०२॥
क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।
मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६-१०३॥ शिवोपनिषद ६-९०

देहो नवरत्नद्वीपः – भावोपनिषद ६

पद्म ६.६.२४

अस्थि

वज्र

अक्षि

इन्द्रनील

क्षतज

पद्मराग

जिह्वा

प्रवाल

दन्त

मुक्ता

मज्जा

मरकत

नख

गारुत्मक

पुरीष

कांस्य

वीर्य

रजत

मूत्र

ताम्र

उद्वर्तन

पित्तल

नाद

वैदूर्य

नख

कनक

रुधिर

रसोद्भव

मेद

स्फटिक

मांस

प्रवाल

 

तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा
कायस्यावयवाः सर्वे रत्नबीजत्वमागताः २४
वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन्
अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसंभवम् २५
क्षतजात्पद्मरागाः स्युः मेदसो मरकतास्तथा
प्रवालानि च जिह्वातो दंता मुक्तास्तथाभवन् २६
मज्जोद्भवं मरकतं गारुत्मतमभून्नसा
कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम् २७
अंगस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीतिकाः
नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तथा २८
नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः
मेदसः स्फटिकं जातं प्रवालं मांससंभवम्

बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले पद्म ६.६.२४

लक्ष्मीनारायण संहिता ३.१६३

देहावयव

कारक

रत्ननाम

लाभ

असृक् रक्त

सूर्यः

पद्मराग

सपत्ना प्रेम

पित्त

वासुकि

मरकत

विषशमन

नेत्रयुग्म

 

इन्द्रनील

 

नाद

 

वैदूर्य

 

त्वक्

 

पुष्पराग

पुत्रदायक

नख

वायु

कर्केतन

रोगनाशकृत

वीर्य

 

भीष्म

व्याघ्रादि पलायन

नखर

भुजङ्माः

पुलक

वृद्धिदायक

रूप

हुताशन

रुधिर

भृत्यैश्वर्य

मेद

लाङ्गली

स्फटिक

पापनाश

आन्त्र

शेष

विद्रुम

धनधान्यकर