पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रथ

टिप्पणी पुराणेषु सार्वत्रिक रूपेण उल्लेखमस्ति यत् अयं देहः एकं रथमस्ति। देवीभागवत पुराण ७.३४.३५ अनुसारेण अस्मिन् देहरूपी रथे इन्द्रियाणि हयरूपाणि सन्ति, बुद्धिः सारथिरस्ति, मनः प्रग्रहवान्। कथनमस्ति यत् यदा विज्ञानं सारथिर्भवति एवं मनः प्रग्रहवान् अस्ति, तदानीमेव अध्वनः पारं गन्तुं शक्नुमः। भागवत पुराणे ४.२९.१८ अतिरिक्तं सूचना अस्ति यत् देहरथे द्विकर्म चक्रः अस्ति, त्रिगुणाः ध्वजमस्ति, पञ्चासु बन्धुरः, मनः रश्मिः, हृन्नीडः, द्वन्द्व कूबरः, सप्तधातु वरूथकः अस्ति। तुलना रूपेण, लक्ष्मीनारायण संहितायां २.२५३.३ देहरूपी शकटस्य निरूपणं अनेन प्रकारेण अस्ति यत् क्षुधा-तृष्णा अस्य द्वौ वृषभौ स्तः, शोकमोहौ चक्रौ , सुखदुःखे अग्रपृष्ठौ भवतः एवं वासना शकटस्य मध्ये वसति।

     पुराणेषु अयं स्पष्टं भवति यत् रथः पृथिवीरस्ति, चक्रौ सूर्य एवं चन्द्रमाः सन्ति। दक्षिणं चक्रं सूर्यः अस्ति, सव्यं चक्रं चन्द्रमाः। सूर्य, पृथिवी एवं चन्द्रमसः गतीनां सायुज्येन संवत्सरस्य निर्माणं भवति, कालस्य दिन-रात्रि, प्रहर, घटी इत्यादि अवयवानां आविर्भावः भवति। वाल्मीकि रामायणे ६.२८.१८ मध्ये कथनं अस्ति यत् रामः अतिरथी अस्ति। तस्य दक्षिण पार्श्वे लक्ष्मणः तिष्ठति एवं सव्य पार्श्वे विभीषणः। यथा भविष्य पुराणे ३.४.१५.५४ कथनं अस्ति, शब्दमात्रसमूह स्वामी रामः अस्ति, अर्थमात्र समूहस्य स्वामी लक्ष्मणः अस्ति। अर्थ शब्दस्य अभिप्रायमस्ति यत् यः अर्थः इन्द्रियेभ्यः ज्ञातमस्ति, तं अतिक्रम्य उच्चतरस्य संज्ञानस्य प्राप्तिः(द्र. अर्थ शब्दोपरि टिप्पणी)। वाल्मीकि रामायणे रामस्य सव्य पार्श्वे विभीषणस्य स्थापनायाः किं तात्पर्यमस्ति, अयं अन्वेषणीयः। स्कन्दपुराणे ३.१.४९.४३ विभीषणस्य स्तुति एवंप्रकारेण अस्ति

।। विभीषण उवाच ।। ।।
संसारवनमध्ये मां विनष्टनिजमार्गके ।।
व्याधिचौरे क्रोधसिंहे जन्मव्याधे लयोरगे ।। ४३ ।।
बाल्ययौवनवार्धक्यमहाभीमांधकूपके ।।
क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते ।। ४४ ।।
त्रासभूकंटकाढ्ये च सीदंतमधुनांधकम् ।।
शोभनां पदवीं शंभो नय रामेश्वराधुना ।। ४५ ।।

राधा गुप्तानुसारेण विभीषणः सात्विक प्रवृत्त्याः प्रतीकमस्ति।

     यदि सूर्यः एवं चन्द्रः रथस्य द्वौ चक्रौ स्तः, तदा सूर्यस्य एवं चन्द्रस्य दैनिक जीवने किं योगदानमस्ति, अयं अन्वेषणीयम्। जैमिनीय ब्राह्मण १.७ अनुसारेण

स वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥

     येन प्रकारेण सायंकाले सूर्यस्य गुणानां अस्तं भवति, तेनैव प्रकारेण प्रातःकाले तेषां गुणानां पुनः उदयकरणस्य आवश्यकता भवति।

जैमिनीय ब्राह्मणे २.२६ मध्ये गवामयनसत्रस्य विषये एवं ३.३५८ मध्ये द्वादशाह यागस्य संदर्भे उल्लेखमस्ति

स ऐक्षताहम् एवेदं सर्वं संवृणजा इति। स वशम्(आंग्लभाषायां वैक्सिंग-वेनिंगतः विपरीत स्थितिः)  एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम्, अर्चिषम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य, स्तनयित्नुं वाचस्, सङ्गमं पितॄणां, भां चन्द्रमसः। तद् यद् एतेषां भूतानाम् आदत्त, तद् आदित्यस्यादित्यत्वम्। स य एतद् एवं वेदैष एवादित्यो भूत्वैतस्यां राजासन्द्याम् आस्ते॥2.26

     आध्यात्मिकरूपेण सूर्येण सह चन्द्रमसः किं सम्बन्धं अस्ति, अस्मिन् संदर्भे गवामयनस्त्रस्य संदर्भे जैमिनीय ब्राह्मणस्य २.६ कथनमस्ति यत् यदा सूर्यस्य तापः असहनीयमभवत्, तदा

स इमं लोकम् अन्तिकाद् अभ्यतपत्। ते वायुम् अवस्तात् पर्यौहन्। तेनैनम् अशमयन्। अपो ह वा एष एतद् बिभर्ति। ते ऽद्भिर् एवैनं तद् अशमयन्। सो ऽमुं परं लोकं प्रातपत्। ते चन्द्रमसं परस्तात् पर्यौहन्। तेनैनम् अशमयन्। प्रजापतिर् वै चन्द्रमाः। प्रजापतिनैवैनं तद् अशमयन्।

वायोरुपरि टिप्पणी पठनीयः  अस्ति।

ऋग्वेद ८.९१.७ मध्ये एकं वैदिक आख्यानमस्ति। संक्षेपरूपेण, अयं आख्यानः इन्द्रस्य अपाला कन्योपरि अनुग्रहकरणेन सम्बन्धितं अस्ति। 

ऋचानुसारेण इन्द्रेण स्वभक्ता अपाला कन्यायाः उपरि कृपां कृत्वा तां क्रमिकरूपेण रथस्य, अनसः एवं युगस्य खे मध्ये पूतनं कृतं येन अपालायाः त्वक् सूर्यत्वक् सदृशमभवत् --

खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।

अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥ ऋ. ,०९१.०७

अस्यां ऋचायां त्रिप्रकाराणां खाम्नां  उल्लेखमस्ति। प्रथमतः, रथस्य खं। भौतिक रूपेण, यत्र रथाक्षाग्रः चक्रनाभ्यां स्पर्शं करोति, तत् छिद्रं खं संज्ञा धारण कर्तुमर्हति। आध्यात्मिक रूपेण, रथं रसमस्ति। अस्मिन् जगति सर्वेपि विषयाः(द्रव्याः) अस्मासु रसदानं कुर्वन्ति। रसादाने इन्द्रियाणि माध्यमाः भवन्ति, रथस्य अश्वाः भवन्ति। अयं कं, आनन्दस्य स्थितिरस्ति। अतः परं एकावस्था अस्ति यस्य नाम खं अस्ति। खं अर्थात् यत्र न कोपि रसः शेषं भवति। पूर्णतः शून्य स्थिति। खेचरी मुद्रायां जिह्वा खे, आकाशे विचरति, अतएव खेचरी नाम भवति। यावत् प्रकृति कं, आनन्दं ददाति, तावत् सा अपाला, अपारा। यदा प्रकृतितः न कस्यापि आनन्दस्य ग्रहणं शेषं भवति, तदा सा खं स्थितिः भवति। रथ एवं अनः मध्ये अन्तरमस्ति यत् रथे अश्वाः युज्यन्ते, अनसे वृषभाः। अश्वानां साम्यं मनसा सार्द्धं अस्ति, वृषभानां साम्यं प्राणेभ्यः सार्द्धं। अतः परं ऋचायां युगस्य किं अर्थं भवितुं शक्यते, अयं अन्वेषणीयः। मन एवं प्राणस्य परे वाचः योजनं शेषं भवति, यस्य योजनेन संवत्सरस्य निर्माणस्य प्रक्रिया पूर्णं भविष्यति। अतः ऋग्वेदीया ऋचा कथयति यत् मन, प्राण एवं वाचः स्तरेषु न कस्यापि स्तरे कं आनन्दस्य अनुभूतिः  भवेत्, तदा अपाला, अपारा पवित्रा भविष्यति। ऋग्वेदे ३.३३.९ विश्वामित्र ऋषिः कथयति यत् ययौ वो दूरादनसा रथेन - - -भवता सुपारा।

     ऋचि युगस्य उल्लेखस्य संदर्भे, सोमयागस्य अन्ते हारियोजनग्रह संज्ञक कृत्यं सम्पन्नं भवति यत्र इन्द्रस्य स्तुतिं कुर्वामः यत् हे इन्द्र, स्वस्य हर्योः रथेन सह योजनं कुरु। उल्लेखमस्ति यत् ऋक् एवं साम इन्द्रस्य हरि-द्वयौ स्तः। तयोः रथेन सह योजनं अपेक्षितं अस्ति(योजा नु इन्द्र ते हरी)। अथवा किमत्र हर्योः परस्परयोजनमपि संभवमस्ति, अयं अन्वेषणीयः। युगस्य योगस्य किं प्रकृति अस्ति, अयं विचारणीयः। अयं कथनं स्पष्टीकरोति यत् अस्य हारियोजनकृत्यस्य प्राक् काले रथे सह हर्योः योजनं नास्ति। अतः परं योजनं भविष्यति। हारियोजनं कृत्यं अग्निहोत्रादिषु इष्टिषु स्विष्टकृत कृत्यस्य तुल्यं अस्ति। अर्थात् कृत्यकाले यः कोपि त्रुटि अभवत्, तस्य परिहारार्थं अयं स्विष्टकृतं कृत्यं अस्ति।  ये कृत्याः ऋजवः सन्ति, तेषां वर्धनं यूपानुदिशं भविष्यति। ये कृत्याः अनृजवः आसन्, तेषां हेतु रथयोजनं अस्ति, अयं प्रतीयते। रथं क्षत्रियस्य वज्रं अस्ति, यूपः ब्राह्मणस्य।

     शकटस्य किं प्रकृतिः भवति, अयं अन्वेषणीयः।

ऋग्वेद ८.९१.७ ऋचायाः विश्लेषणं जैमिनीय ब्राह्मणे १.२२१ एवं शतपथ ब्राह्मणे १४.८.१२(बृहदारण्यक उपनिषद ५.१०) मध्ये उपलब्धमस्ति।

 

क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः ।

कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ ,०३४.०९ 

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।

ताभिर्याति स्वयुक्तिभिः ॥ ,०५०.०९ 

एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।

दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥१,०५६.०१ 

स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।

यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥ ,०८२.०४

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।

भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥ ,०९४.०१

स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥ ,११९.०२

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।

त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ ,१६४.०२ 

इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।

सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥१,१६४.०३ 

तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।

अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥ ,१८०.१०

तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।

इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥ ,०३४.०७ 

सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।

विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ २,०४०.०३

ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।

नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥

आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।

नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥३.३३.१०॥

अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।

महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥ ,०३६.०१

विहि होत्रा अवीता विपो न रायो अर्यः ।

वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥ १ 

निर्युवाणो अशस्तीर्नियुत्वां इन्द्रसारथिः ।

वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥

अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।

वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥

वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव ।

वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥

वायो शतं हरीणां युवस्व पोष्याणाम् ।

उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ ४,०४८.०५ 

न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् ।

तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ ५,०३३.०३ 

अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु ।

सयावानं धनेधने वाजयन्तमवा रथम् ॥ ५,०३५.०७

प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः ।

इषुध्यव ऋतसापः पुरन्धीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥ ५,०४१.०६

धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।

ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥ ५,०६३.०७ 

ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः ।

पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ ५,०७३.०३ 

अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् ।

अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥ ६,०४४.२४ 

स रथेन रथीतमोऽस्माकेनाभियुग्वना ।

जेषि जिष्णो हितं धनम् ॥ ६,०४५.१५

दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।

अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥ ६,०४७.२७ 

इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।

सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ ६,०४७.२८ 

ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।

पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥ ६,०६२.०२ 

रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।

अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥६,०७५.०६ 

तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।

अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूंरनपव्ययन्तः ॥ ६,०७५.०७ 

रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।

तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ ६,०७५.०८ 

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।

अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥ ७,०४१.०६ 

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।

घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४१.०७

यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।

यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥ ८,०१०.०६ 

युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।

अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥ ८,०२२.०४ 

रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।

परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥ ८,०२२.०५ 

गव्यो षु णो यथा पुराश्वयोत रथया ।

वरिवस्य महामह ॥ ८,०४६.१० 

इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।

पुरस्तादेनं मे कृधि ॥

हन्तो नु किमाससे प्रथमं नो रथं कृधि ।

उपमं वाजयु श्रवः ॥

अवा नो वाजयुं रथं सुकरं ते किमित्परि ।

अस्मान्सु जिग्युषस्कृधि ॥ ८,०८०.०६

खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।

अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥ ८,०९१.०७

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।

इन्द्रवाहा वचोयुजा ॥ ८,०९८.०९

परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।

पुनानो वाघद्वाघद्भिरमर्त्यः ॥ ९,१०३.०५ 

आ ते रथस्य पूषन्नजा धुरं ववृत्युः ।

विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥

अस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।

भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥ १०,०२६.०९

एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।

न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ १०,०३९.१४

भृगवो न रथम् ऋभवो न रथम्- सायण भाष्य, तु. ऋ. ४.१६.२०

रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।

प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥ १०,०४०.०१

प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् ।

विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥ १०,०४१.०२

असमातिं नितोशनं त्वेषं निययिनं रथम् ।

भजेरथस्य सत्पतिम् ॥ १०,०६०.०२ 

इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।

दिवीव सूर्यं दृशे ॥ १०,०६०.०५ 

यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।

प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥१०,०६३.१४ 

मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।

शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥१०

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।

श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।

अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥ १०,०८५.१२

उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।

ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ १०,०९३.०७

रथस्पतिः पूषा सायण भाष्य

प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।

द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥१०,१०१.०७

भर्म्यश्वपुत्रो मुद्गलः

प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।

अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥

उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् ।

रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥

अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।

दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥

उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।

प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥

न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।

तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥

ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।

दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥

उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।

इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥

शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।

नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥

इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।

येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥

आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तं वा स्थापयन्ति ।

नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥१०

परिवृक्तेव पतिविद्यमानट्पीप्याना कूचक्रेणेव सिञ्चन् ।

एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥११

त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।

वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥ १०,१०२.१२ 

बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।

अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥

गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।

इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥१०,१०३.०६

यं कुमार नवं रथमचक्रं मनसाकृणोः ।

एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥

यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।

तं सामानु प्रावर्तत समितो नाव्याहितम् ॥

कः कुमारमजनयद्रथं को निरवर्तयत् ।

कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥१०,१३५.०५

वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।

दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥

सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः ।

ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥ १०,१६८.०२

इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्धाऽभवत्तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा यावद्वाथ यत्र प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शरोऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रोऽभवत् - १.२.४.[१]

ततो द्वाभ्यां ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः संव्याधे यूपेन च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः - १.२.४.[२]

तद्यदाजिं धावन्ति । इममेवैतेन लोकमुज्जयत्यथ यद्ब्रह्मा रथचक्रे साम गायति नाभिदघ्न उद्धितेऽन्तरिक्षलोकमेवैतेनोज्जयत्यथ यद्यूपं रोहति देवलोकमेवैतेनोज्जयतितस्माद्वा एतत्त्रयं क्रियते - ५.१.५.[१]

 

स ब्रह्मा रथचक्रमधिरोहति । नाभिदघ्न उद्धितं देवस्याहं सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.[२]

अथ श्वो भूते । संग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालं पुरोडाशं निर्वपति सयोनी वा अश्विनौ सयोनी सव्यष्टृसारथी समानं हि रथमधितिष्ठतस्तस्मादाश्विनो भवत्येतद्वा अस्यैकं रत्नं यत्संग्रहीता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य यमौ गावौ दक्षिणा तौ हि सयोनी यद्यमौ यदि यमौ न विन्देदप्यनूचीनगर्भावेव गावौ दक्षिणा स्यातां ता उ ह्यपि समानयोनी - ५.३.१.[८]

अथ रथमुपावहरति । यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते तस्माद्रथमुपावहरति - ५.४.३.[३]

मा इन्द्र ते वयं तुराषाट् । अयुक्तासो अब्रह्मता विदसाम तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाऽभीशवो वै रश्मयस्तस्मादाहा रश्मीन्देव यमसे स्वश्वानित्यथ रथविमोचनीयानि जुहोति प्रीतो रथो विमुच्याता इति तस्माद्रथविमोचनीयानि जुहोति - ५.४.३.[१४]

स जुहोति । अग्नये गृहपतये स्वाहेति स यदेवाग्नेयं रथस्य तदेवैतेन प्रीणाति वहा वा आग्नेया रथस्य वहानेवैतेन प्रीणाति श्रीर्वै गार्हपतं यावतोयावत ईष्टे तच्छ्रियमेवास्यैतद्गार्हपतं राज्यमभिविमुच्यते - ५.४.३.[१५]

 

सोमाय वनस्पतये स्वाहेति । द्वयानि वै वानस्पत्यानि चक्राणि रथ्यानि चानसानि च तेभ्यो न्वेवैतदुभयेभ्योऽरिष्टिं कुरुते सोमो वै वनस्पतिः स यदेव वानस्पत्यं रथस्य तदेवैतेन प्रीणाति दारूणि वै वानस्पत्यानि रथस्य दारूण्येवैतेन प्रीणाति क्षत्रं वै सोमः क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते - ५.४.३.[१६]

मरुतामोजसे स्वाहेति । स यदेव मारुतं रथस्य तदेवैतेन प्रीणाति चत्वारोऽश्वा रथः पञ्चमो द्वौ सव्यष्टृसारथी ते सप्त सप्तसप्त व मारुतो गणः सर्वमेवैतेन रथं प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते - ५.४.३.[१७]

 

इन्द्रस्येन्द्रियाय स्वाहेति । स यदेवैन्द्रं रथस्य तदेवैतेन प्रीणाति सव्यष्ठा वा ऐन्द्रो रथस्य सव्यष्ठारमेवैतेन प्रीणातीन्द्रियं वै वीर्यमिन्द्र इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते - ५.४.३.[१८]

अथ रथमुपावहरति । यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते तस्माद्रथमुपावहरति - ५.४.३.[३]

स उपावहरति । इन्द्रस्य वज्रोऽसीति वज्रो वै रथ इन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वज्रोऽसीति - ५.४.३.[४]

 

तमन्तर्वेद्यभ्यववर्त्य युनक्ति । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति - ५.४.३.[५]

 

तं चतुर्युजं युनक्ति । स जघनेन सदोऽग्रेण शालां येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन चात्वालमग्रेणाग्नीध्रमुद्यच्छति - ५.४.३.[६]

 

तमातिष्ठति । अव्यथायै त्वा स्वधायै त्वेत्यनार्त्यै त्वेत्येवैतदाह यदाहाव्यथायै त्वेति स्वधायै त्वेति रसाय त्वेत्येवैतदाहारिष्टो अर्जुन इत्यर्जुनो ह वै नामेन्द्रो यदस्य गह्यं नाम द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहारिष्टो अर्जुन इति - ५.४.३.[७]

 

अथ दक्षिणायुग्यमुपार्षति । मरुतां प्रसवेन जयेति विशो वै मरुतो विशा वै तत्क्षत्रियो जयति यज्जिगीषति तस्मादाह मरुतां प्रसवेन जयेति - ५.४.३.[८]

११.८.१ अग्निहोत्रे महउपस्थानम्

तद्यथा ह वै  इदं रथचक्रं वा कौलालचक्रं वा प्रतिष्ठितं क्रन्देदेवं हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः - ११.८.१.[१]

 

स ह प्रजापतिरीक्षां चक्रे  कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं जीमूतैश्च नक्षत्रैश्च दिवम् - ११.८.१.[२]

संशितो रश्मिना रथ इति रश्मिनैव रथं सम्पादयति तस्माद्रथः पर्युतो दर्शनीयतमो भवति - १३.२.७.[८]

 

संशितो रश्मिना हय इति  रश्मिनैवाश्वं सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो

भूयिष्ठं रोचते - १३.२.७.[९]

स वा अयमात्मा  सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानः समर्पिताः - १४.५.५.[१५]

१४.७.१.[११]

न तत्र रथा न रथयोगा न पन्थानो भवन्ति  अथ रथान्रथयोगान्पथःसृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः स्रवन्त्यः पुष्करिण्यो भवन्त्यथ वेशान्ताः स्रवन्तीः पुष्करिणीःसृजते स हि कर्ता

१४.८.१२.

यदा वै पुरुषो  अस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा

रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथाडम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते सलोकमागच्छत्यशोकमहिमं तस्मिन्वसति शश्वतीः समाः

अक्षरेषु रथन्तरं करोति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥ - जै. १.१३५

अशनया ह वै रथा अन्नम् उ वै रथन्तरम्। अन्नेनाशनयां घ्नन्ति। तांताम् अशनयाम् अन्ने हत्वा स्वर्गं लोकम् आरोहन्। - जै. १.१३६

तद् रथन्तरम् असृजत। तद् रथघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य एव तद् विद्यात्॥ - जै. १.१४३

त्रैतं नाथकामः कुर्वीत। आप्त्यान् साते नयतो ऽरण्ये पिपासाविन्दत्। ते धन्वन् कूपम् अविन्दन्। तन् नैकतो ऽवरोढुम् अकामयत न द्वितः। तत् त्रितो ऽवारोहत्। तौ यदापिबताम् अतृप्यताम् अथ हैनं तद् एव रथचक्रेणापिधाय गोभिः प्रैताम्। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तेनास्तुत। स सम् इन्दुभिः इत्य् एव निधनम् उपैत्। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम् उत्प्लावयांचकार येनापिहित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स तं नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद॥ - १.१८४

ते देवा अब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्वीयाम् अत्यकुरुताम्। तौ देवा अब्रुवन् वारो ऽयं वाम् अथ नस् सहास्त्व् इति। तस्मान् नानादेवत्यास् स्तुवन्ति। अथाश्विनम् इत्य् आख्यायते। अग्नये प्रथमाय स्तुवन्त्य् अथोषसे ऽथाश्विभ्याम्। एवं ह्य् एषाम् एता उज्जितयः॥ १.२१३

तां खे रथस्यात्यबृहत्। सा गोधाभवत्। तां खे ऽनसो ऽत्यबृहत्। सा कृकलास्य् अभवत्। तां खे युगस्यात्यबृहत्। सा संश्लिष्ठिकाभवत्। तद् एषाभ्यनूच्यते

     खे रथस्य खे ऽनसः खे युगस्य शतक्रतो।

     अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोस् सूर्यत्वचम्॥ - १.२२१