Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रात्रि

संदर्भ

*रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑। विश्वा॒ अधि॒ श्रियो॑ऽधित॥

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑। ज्योति॑षा बाधते॒ तमः॑॥

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती। अपेदु॑ हासते॒ तमः॑ ॥

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि। वृ॒क्षे न व॑स॒तिं वयः॑॥

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑। नि श्ये॒नास॑श्चिद॒र्थिनः॑॥

या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये। अथा॑ नः सु॒तरा॑ भव॥

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित। उष॑ ऋ॒णेव॑ यातय॥

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः। रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑॥ - ऋ. १०.१२७, ऋषिः-- कुशिकः सौभरो, रात्रिर्वा भारद्वाजी

*वयम् उ त्वा त्वदिदर्थाः इति काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति स एतत् सामापश्यत्। तेनास्तुत। स रन्ताया इत्य् एव निधनम् उपैत्। अरत इव वा एष भवति यो न प्रतितिष्ठति। लेलेव वै रात्री रतिर् वा एषा. ततस् स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। -- जै.ब्रा. १.२१६

श्री चिन्तामणिशर्मा गणेशसूनु काशीकर महोदय ने श्रौतकोश द्वितीय ग्रन्थ, संस्कृत द्वितीय विभाग पृष्ठ १५० पर अतिरात्र के संदर्भ में जैमिनीय ब्राह्मण के इस संदर्भ को उद्धृत किया है लेकिन लेलेव वै रात्री के स्थान पर त्वेत्येव वै रात्री का उल्लेख है। इस पाठभेद का मूल क्या है, यह अज्ञात है। कौन सा पाठ शुद्ध हो सकता है, इसका निर्णय करना कठिन है। अतिरात्र के संदर्भ में ब्राह्मणाच्छंसी शस्त्र में इन्द्र त्वा वर्तयामसि, वयमिन्द्र त्वायवो इत्यादि पद प्रकट होते हैं।

*अथास्या(शचिष्ठायाः) एतत् पृश्निबलं(सत्यानृतमुभयविधमिश्रितम्) पदं यद्रात्रिः। - जै.ब्रा. २.२५९

*अनुवाऽसि रात्रियै त्वा रात्रिं जिन्व तै.सं. ४.४.१.१

*अनुवेति रात्रिम्(असृजत) तै.सं. ५.३.६.१

*अहर्वै स्तोत्रियो रात्रिरनुरूपः जै.ब्रा. ३.२१

*आनुष्टुभी रात्रिः ऐ.ब्रा. ४.६, मै.सं. ३.९.५

*आनुष्टुभेन च्छन्दसा रात्रीमुपदधे काठ. सं. ३८.१२

*इय ँ रात्रिः सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च तै.आ. १.१४.४

*ऋतं रात्रिः। सत्यं तदहः जै.ब्रा. ३.३७३

*एष रात्रिया(वर्णः) यत् कृष्णम् तै.सं. ६.१.३.२

*एषा वा अग्निष्टोमस्य सम्मा यद् रात्रिः - - - -एषा वा उक्थस्य सम्मा यद् रात्रिः। - - एषा वा अग्निष्टोमस्य च संवत्सरस्य सम्मा यद् रात्रिः - - -एषा वै ब्रध्नस्य विष्टपं यद् रात्रिः जै.ब्रा. १.२०६

*क्षेमो रात्रिः श.ब्रा. १३.१.४.३

*चतुर्विंशति रात्र्या(रात्रिपर्यायस्य) उक्थामदानि जै.ब्रा. १.२१२

*छन्नेवाह्नो रात्रिः। - - छन्ना वै रात्रिः जै.ब्रा. १.३४०

*तम इव हि रात्रिर्मृत्युरिव ऐ.ब्रा. ४.५

*तमः पाप्मा रात्रिः गोपथ ब्रा. २.५.३, कौ.ब्रा. १७.६, १७.९

*तमो रात्रिः तै.सं. १.५.९.५

*द्वादश स्तोत्राणि रात्रिः तां.ब्रा. ९.१.२३-२४

*नास्य नक्तं रक्षा  ँसीशते य एवं वेद काठक सं. ७.१०

*मृत्योस्तम इव हि रात्रिः गो.ब्रा. २.५.१

*यजमानदेवत्यं वा अहः। भ्रातृव्यदेवत्या रात्रिः। - तै.ब्रा. २.२.६.४

*यदरात्समिति ता रात्रयः जै.ब्रा. ३.३८०

*या(अपः) नक्तं गृह्णाति या आद्याः प्रजास्तासामेता(आपः) योनिः मै.सं. ४.५.१

*रातं वा अस्मा अभूदिति सो एव रात्रिरभवत् जै.ब्रा. ३.३५७

*रात्रिरिव प्रियो भूयासम् ऐ.आ. ५.१.१

*रात्रिरेव श्रीः श्रिया ँ हैतद्रात्र्या ँ सर्वाणि भूतानि संवसन्ति श.ब्रा. १०.२.६.१६

*रात्रिर्वरुणः ऐ.ब्रा. ४.१०, जै.ब्रा. १.३१२, तां.ब्रा. २५.१०.१०

*रात्रिर्वात्सप्रम्(सूक्तम्) श.ब्रा. ६.७.४.१२

*रात्रिर्वै व्युष्टिः श.ब्रा. १३.२.१.६

*रात्रिर्वै संयच्छन्दः श.ब्रा. ८.५.२.६

*रात्रिः सावित्री गो.ब्रा. १.१.३३

*रात्रीं पीवसा(प्रीणामि) काठ.सं. ५३.१०

*रात्र्या(पर्यायेण) त्वाव सर्वमवरुन्द्धे जै.ब्रा. १.२०७

*वारुणी रात्रिः तै.सं. २.१.७.३, मै.सं. १.८.८, तै.ब्रा. १.७.१०.१

*शर्वरी वै नाम रात्रिः जै.ब्रा. १.२०९

*सगरा रात्रिः श.ब्रा. १.७.२.२६

*स दर्भेण रजतं हिरण्यं प्रबध्य पुरस्ताद्धरेत्। तच्चन्द्रमसो रूपं क्रियते। रात्रेर्वा एतद्रूपम् जै.ब्रा. १.६३(तु. श.ब्रा. १२.४.४.७)

*सोमो रात्रिः श.ब्रा. ३.४.४.१५

*उच्छन्तीरद्य चितयन्त भोजान् राधोदेयाय उषसो मघोनी ऋ. ४.५१.३

*अग्निर्वै रात्रिरसा आदित्योऽहः मै.सं. १.५.९

*अग्नी रात्र्यसा आदित्योऽहः काठ.सं. ७.६

*त्रीणि षष्टिशतान्यूष्मणां यानूष्मणोऽवोचाम रात्रयस्ताः ऐ.आ. ३.२.२

*दर्शपूर्णमासे व्रतोपायनम्स आहवनीयागारे वैतां रात्रिं शयीत, गार्हपत्यागारे वा। - श.ब्रा. १.१.१.११

*सामिधेन्यनुवचनम्पञ्चदश वा अर्धमासस्य रात्रयः। अर्द्धमासशो वै संवत्सरो भवन्नेति, तद्रात्रीराप्नोति। - श.ब्रा. १.३.५.८

*होतृवरणम् -- तत्र जपति षण् मोर्वीरंहस्पान्तु-अग्निश्च पृथिवी च आपश्च वाजश्च अहश्च रात्रिश्च इति। - श.ब्रा. १.५.१.२२

*अग्नीषोमीयम् -- सूर्य एवाग्नेयश्चन्द्रमाः सौम्यः। अहरेवाग्नेयम्, रात्रिः सौम्या। य एवापूर्यते अर्द्धमासः स आग्नेयोऽपक्षीयते स सौम्यः। - श.ब्रा. १.६.३.२४

*दर्शोपचारःतं(इन्द्रं) अन्वेष्टुं दध्रिरे। अग्निर्देवतानां, हिरण्यस्तूप ऋषीणां, बृहती छन्दसाम्। तमग्निरनु विवेद। तेनैतां रात्रिंसहाजगाम। - श.ब्रा. १.६.४.२

*एष वै सोमो राजा देवानामन्नं-यच्चन्द्रमाः। स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे, तदिमं लोकमागच्छति। स इहैवापश्चौषधीश्च प्रविशति। स वै देवानां वसु, अन्नं ह्येषाम्। तद् यदेष एतां रात्रिमिहामा वसति-तस्मादमावास्या नाम। - श.ब्रा. १.६.४.५

*तद्वा एतदेव वार्त्रघ्नं यत् पौर्णमासम्। अथैष एव वृत्रो, यच्चन्द्रमाः। स यैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे, तदेनमेतेन सर्वं हन्ति, नास्य किञ्चन परिशिनष्टि। सर्वं ह वै पाप्मानं हन्ति, न पाप्मनः किञ्चन परिशिनष्टि-य एवमेतद्वेद। श.ब्रा. १.६.४.१३

*एष वै सोमो राजा देवानामन्नं, यच्चन्द्रमाः। स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे, तदिमं लोकमागच्छति। स इहापश्चौषधीश्च प्रविशति। - - स एष आहुतिभ्यो जातः पश्चाद्ददृशे। - श.ब्रा. १.६.४.१५

*तद्वा एतां रात्रिं देवेभ्योऽन्नाद्यं प्रच्यवते। तदिमं लोकमागच्छति। - - - अथैष एव वृत्रो यच्चन्द्रमाः। सोऽस्यैव भ्रातृव्यजन्मेव। तस्माद् यद्यपि पुरा विदूरमिवोदितः, अथैनमेतां रात्रिमुपैव न्याप्लवते। सोऽस्य व्यात्तमापद्यते। - श.ब्रा. १.६.४.१७

*सान्नाय्यसम्पादनम्अथ यवाग्वैतां रात्रिमग्निहोत्रं जुहोति। आदिष्टं वा एतद्देवतायै हविर्भवति यत् पयः। स यत् पयसा जुहुयाद्- यथाऽन्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै जुहुयाद्- एवं तत्। तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति। - श.ब्रा. १.७.१.१०

*दर्शपूर्णमासनिर्वचनम्अथो इतरथाहुः। य एव देवानामासीत् सोऽयवा। न हि तमसुरा अयुवत। योऽसुराणां स यवा। अयुवत हि तं देवाः। सब्दमहः। सगरा रात्रिः। यव्या मासाः। सुमेकः संवत्सरः। - - -श.ब्रा. १.७.२.२६

*ऋतुब्राह्मणम्य एवापूर्यतेऽर्द्धमासः स देवाः। योऽपक्षीयते, स पितरः। अहरेव देवाः। रात्रिः पितरः। - श.ब्रा. २.१.३.१

*अग्निहोत्रम्अथ यदस्तमेति, तदग्नावेव योनौ गर्भो भूत्वा प्रविशति। तं गर्भं भवन्तमिमाः सर्वाः पर्जा अनुगर्भा भवन्ति ईलिता हि शेरे सञ्जानानाः। अथ यद् रात्रिः, तिर एवैतत्करोति। तिर इव हि गर्भाः। - श.ब्रा. २.३.१.३

*अग्निहोत्रम्स यथा ऽहिस्त्वचो निर्मुच्येत-एवं रात्रेः पाप्मनो निर्मुच्यते। यथा ह वा अहिस्त्वचो निर्मुच्येत- एवं सर्वस्मात्पाप्मनो निर्मुच्यते-य एवं विद्वानग्निहोत्रं जुहोति। - श.ब्रा. २.३.१.६

*स यत् सायमस्तमिते जुहोति- अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि, यदेषामिदं सदुपजीवाम इति। स यत्ततो रात्र्याऽश्नाति, हुतोच्छिष्टमेव तन्निरवत्तबल्यश्नाति। - श.ब्रा. २.३.१.११

*अनेनैव जुहुयात्-सजूर्देवेन सवित्रा इति, तत् सवितृमत्प्रसवाय। सजू रात्र्येन्द्रवत्या इति। तद् रात्र्या मिथुनं करोति। - श.ब्रा. २.३.१.३७

*सायङ्कालीनमग्न्युपस्थानम्अग्नौ ह वै देवाः सर्वान् पशून्निदधिरे-ये च ग्राम्याः, ये चारण्या विजयं वोपप्रैष्यन्तः, कामचारस्य वा कामाय-अयं नो गोपिष्ठो गोपायद् इति वा। तानु हाग्निर्निचमे। तैः सङ्गृह्य रात्रिं प्रविवेश। पुनरेम इति देवा एदग्निं तिरोभूतम्। ते ह विदाञ्चक्रुः- इह वै प्राविक्षद्, रात्रिं वै प्राविक्षदिति। तमेतत्प्रत्यायत्यां रात्रौ सायमुपातिष्ठन्त- देहि नः पशून् पुनर्नः पशून् देहि इति। - श.ब्रा. २.३.४.१

*स वा उपवत्या(वा.सं. ३.११) प्रतिपद्यते- इयं वा उप द्वयेनेयमुप। यद्धीदं किञ्च जायते- अस्यां तदुपजायते- अथ यत् न्यृच्छति(नितरां आर्तिं प्राप्नोति)- अस्यामेव तदुपोप्यते(निलीयते)। तदह्ना रात्र्या भूयो-भूय एवाक्षय्यं भवति, तदक्षय्येणैवैतद् भूम्ना प्रतिपद्यते। - श.ब्रा. २.३.४.९

*बृहदुपस्थानम्चित्रावसो स्वस्ति ते पारमशीय इति। त्रिरेतज्जपति। रात्रिर्वै चित्रावसुः। सा हीयं सङ्गृह्यैव चित्राणि वसति। तस्मान्नारकाच्चित्रं ददृशे। एतेन ह स्म वा ऋषयो रात्रेः स्वस्ति पारं समश्रुवते, एतेनो ह स्मैनान् रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्ति। एतेनो एवैष एतद् रात्रेः स्वस्ति पारं समश्नुते - - - - श.ब्रा. २.३.४.२३

*चातुर्मास्ययागे शुनासीरीय पर्वतद्धैके रात्रीरापिपयिषन्ति। स यदि रात्रीरापिपयिषेद्(आप्तुमिच्छेत् सायण) यददः पुरस्तात् फाल्गुन्यै पौर्णमास्या उद्दृष्टं-तच्छुनासीर्येण यजेत। - श.ब्रा. २.६.३.११

*दीक्षितधर्माः पुरास्तमयादाह- दीङित वाचं यच्छेति। तामस्तमिते वाचं विसृजते। पुरोदयादाह- दीक्षितं वाचं यच्छेति। तामुदिते वाचं विसृजते- सन्तत्या एव। अहरेवैतत्-रात्र्या सन्तनोति, अह्ना रात्रिम्। - श.ब्रा. ३.२.२.२६

*दीक्षितधर्माः नैनमन्यत्र चरन्तमभ्यस्तमियात्। न स्वपन्तमभ्युदियात्। स यदेनमन्यत्र चरन्तमभ्यस्तमियात्- रात्रेरेनं तदन्तरियात्। यत् स्वपन्तमभ्युदियाद्- अह्न एनं तदन्तरियात्। -- श.ब्रा. ३.२.२.२७

*प्रवर्ग्योपसदौ संवत्सरो हि वज्रः, अग्निर्वाऽअहः, सोमो रात्रिः। अथ यदन्तरेण, तद् विष्णुः। - श.ब्रा. ३.४.४.१५

*अन्तर्याम ग्रहः अहः सन्तमुपांशुम्, तं रात्रौ जुहोति। अहरेवैतद्रात्रौ दधाति तस्माद् अपि सुतमिस्रायामुपैव किञ्चित् ख्यायते। रात्रिं सन्तमन्तर्यामं, तमुदिते जुहोति। रात्रिमेवैतदहन्दधाति। तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति। - श.ब्रा. ४.१.२.१३

*बहिष्पवमानम् यद्यतिरात्रः स्यात्-सारस्वतं चतुर्थमालभेत, वाग्वै सरस्वती। योषा वै वाक्, योषा रात्रिः। - श.ब्रा. ४.२.५.१४

*ऋतुग्रहाः तौ वाऽऋतुनेति षट् प्रचरतः। तद् देवा अहरसृजन्त। ऋतुभिरिति चतुः। तद्रात्रिमसृजन्त। स यद्धातावदेवाभविष्यद् रात्रिर्हैवाभविष्यत्-न व्यवत्स्यत्। तौ वाऽऋतुनेत्युपरिष्टाद्विश्चरतः। तद् देवाः परस्तादहरददुः। तस्माद् इदम् अद्याहः। अथ रात्रिः, अथ श्वोऽहर्भविता। ऋतुनेति वै देवा मनुष्यानसृजन्त, ऋतुभिरिति पशून्। - श.ब्रा. ४.३.१.१२

*यद्यतिरात्रः स्यात्- सारस्वतं चतुर्थमालभेत। वाग्वै सरस्वती। योषा वै वाक्, योषा रात्रिः। तद् यथायथं यज्ञक्रतून्व्यावर्तयति। श.ब्रा. ४.६.३.३

*पशुतन्त्रम् सारस्वतं सप्तदशाय स्तोत्रायालभते। तदेतदनतिरात्रे सति रात्रे रूपं क्रियते। प्रजापतिं वाऽएष उज्जयति यो वाजपेयेन यजते। सम्वत्सरो वै प्रजापतिः। तदेतेन सारस्वतेन रात्रिमुज्जयति। तस्मादेतदनतिरात्रे सति रात्रे रूपं क्रियते। - श.ब्रा. ५.१.३.२

*केशवपनीयोऽतिरात्रः तस्यैकविंशं प्रातःसवनम्, सप्तदशं माध्यन्दिनं सवनम् पञ्चदशं तृतीयसवनम्। सहोक्थैः, सह षोडशिना, सह रात्र्या। - श.ब्रा. ५.५.३.३

*तं(पशुं) पौर्णमास्यामलभेत। अमावास्यायामालभेत इत्युहैकऽआहुः। असौ वै  चन्द्रः प्रजापतिः। स एतां रात्रिमिह वसति। तद्यथोपतिष्ठन्तमालभेत एवं तदिति। - - -

तद्वै फाल्गुन्यामेव। एषा ह सम्वत्सरस्य प्रथमा रात्रिः- यत्फाल्गुनी पौर्णमासी योत्तरा। एषोत्तमा या पूर्वा। मुखत एव तत् संवत्सरमालभते। - श.ब्रा. ६.२.२.१८

*अथ विष्णुक्रमान्क्रान्त्वा, वात्सप्रेणोपस्थाय, अस्तमितऽआदित्ये भस्मैव प्रथममुद्वपति। एतद्वा एनमेतेनान्नेन प्रीणाति-एताभिः समिद्भिः। तस्यान्नस्य जग्धस्यैष पाप्मा सीदति-भस्म। तेनैनमेतद् व्यावर्त्तयति। तस्मिन्नपहतपाप्मन् वाचं विसृजते। वाचं विसृज्य, समिधमादधाति। रात्र्याऽएवैनमेतदन्नेन प्रीणाति। रात्रीं रात्रीमप्रयावं भरन्त इति। तस्योक्तो बन्धुः। रात्र्याऽएवैतामरिष्टिं स्वस्तिमाशास्ते। तद् यत् किञ्चातो रात्र्योपसमादधाति, आहुतिकृतं हैवास्मै तदुपसमादधाति। - श.ब्रा. ६.६.४.१

*विष्णुक्रमैर्वै प्रजापतिरहरसृजत। वात्सप्रेण रात्रिम्। - - - श.ब्रा. ६.७.४.७

*तद्वाऽअहोरात्रेऽएव विष्णुक्रमा भवन्ति। अहोरात्रे वात्सप्रम्। - श.ब्रा. ६.७.४.१०

*अहर्वै विष्णुक्रमाः, रात्रिर्वात्सप्रम्। एतद्वाऽइदं सर्वं प्रजापतिः प्रजनयिष्यंश्च प्रजनयित्वा च, अहोरात्राभ्यामुभयतः पर्यगृह्णात्। - श.ब्रा. ६.७.४.१२

*तदाहुः यदहर्विष्णुक्रमाः, रात्रिर्वात्सप्रम्- अथोभे ऽएवाहन्भवतो, न रात्र्याम्। कथमस्यापि रात्र्यां कृते भवत इति। -- - -श.ब्रा. ६.७.४.१३

*ता(समिधः) वै सायंप्रातरादधाति। अह्नश्च हि तद् रात्रेश्चान्नमस्रवत्। तान्येतानि सर्वस्मिन्नेव संवत्सरे स्युः। संवत्सरो हि स प्रजापतिः। - श.ब्रा. ७.१.२.११

*पंचमी चितिः संयच्छन्दः इति। रात्रिर्वै संयच्छन्दः। वियच्छन्दः इति। अहर्वै वियच्छन्दः। - श.ब्रा. ८.५.२.५

*शतरुद्रियम् अथ यानि त्रिंशत् त्रिंशन्मासस्य रात्रयः-तन्मासस्य रात्रीराप्नोति। - श.ब्रा. ९.१.१.४३

*उख्याग्नौ होमं कृष्णायै शुक्लवत्सायै पयसा। रात्रिर्वै कृष्णा शुक्लवत्सा। तस्या असावादित्यो वत्सः। स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति। - श.ब्रा. ९.२.३.३०

*तदाहुः-कथमस्यैषा वसोर्धारा संवत्सरमग्निमाप्नोति, कथं संवत्सरेणाग्निना सम्पद्यत इति। - - -ततो यानि षष्टिश्च त्रीणि च शतानि- तावन्ति संवत्सरस्याहानि। - -- अथ यानि षट्। षड्वा ऋतवः। तदृतूनां रात्रीराप्नोति। तदुभयानि संवत्सरस्याहोरात्राण्याप्नोति। - श.ब्रा. ९.३.३.१८

*बहुभिर्ह वै यज्ञैरेकमहरेका रात्रिर्मिता। स य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति। स हैवैनदद्धातमामाप्नोति। - श.ब्रा. १०.२.६.९

*त्रीणि वा इमानि पञ्चविधानिसंवत्सरः, अग्निः, पुरुषः। तेषां पञ्च विधाःअन्नम्, पानम्, श्रीः, ज्योतिः, अमृतम्। यदेव संवत्सरेऽन्नं तदन्नम्। या आपस्तत्पानम्। रात्रिरेव श्रीः। श्रियां हैतद्रात्र्यां सर्वाणि भूतानि संवसन्ति। अहः ज्योतिः, आदित्यः अमृतम्। इत्यधिदैवतम्। अथाधियज्ञम्। यदेवाग्नावन्नमुपधीयते-तदन्नम्। या आपस्तत्पानम्। परिश्रित एव श्रीः। तद्धि रात्रीणां रूपम्। यजुष्मत्यो ज्योतिः। तद्ध्यह्नां रूपम्। अग्निरमृतम्। तद्ध्यादित्यस्य रूपम्। -- अथाध्यात्मम्। यदेव पुरुषेऽन्नम्-तदन्नम्। या आपस्तत्पानम्। अस्थीन्येव श्रीः तद्धि परिश्रितां रूपम्। मज्जानो ज्योतिः। तद्धि यजुष्मतीनां रूपम्। प्राणोऽमृतम्। तद्ध्यग्ने रूपम्। प्राणोऽग्निः।- - -अन्नाद्वा अशनाया निवर्तते। पानात्पिपासा, श्रियै पाप्मा, ज्योतिषस्तमः, अमृतान्मृत्युः। - श.ब्रा. १०.२.६.१६

*स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्तान्-लोकम्पृणाः। पञ्चदशैव रात्रेः। तद् यन्मुहुः त्रायन्ते-तस्मान्मुहूर्ताः। अथ यत्क्षुद्रा सन्त इमाँल्लोकानापूरयन्ति-तस्माल्लोकम्पृणाः। - श.ब्रा. १०.४.२.१८

*स ऋचो व्यौहत्द्वादश बृहतीसहस्राणि। एतावत्यो हर्चो याः प्रजापतिसृष्टाः। तास्त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठन्त। ता यत्त्रिंशत्तमे व्यूहेऽतिष्ठन्त। तस्मात्त्रिंशन्मासस्य रात्रयः। - श.ब्रा. १०.४.२.२३

*अथेतरौ वेदौ व्यौहत्-द्वादशैव बृहतीसहस्राणि। - - - तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेताम्। तौ यत्त्रिंशत्तमे व्यूहेऽतिष्ठेताम्तस्मात्त्रिंशन्मासस्य रात्रयः। - श.ब्रा. १०.४.२.२४

*तद् यत्परिश्रितमुपाधत्त-तद्रात्रिमुपाधत्त। तदनु पञ्चदश मुहूर्त्तान्। मुहूर्त्ताननु पञ्चदशाशीतीः। अथ यद्यजुष्मतीमुपाधत्त-तदहरुपाधत्त। तदनु पञ्चदश मुहूर्त्तान्। मुहूर्त्ताननु पञ्चदशाशीतीः। - श.ब्रा. १०.४.२.२७, १०.४.२.३०

परिश्रितं शर्कराम्; मुहूर्ता लोकम्पृणेष्टका - सायण

*परिश्रिद्भिरेवास्य रात्रीराप्नोति। यजुष्मतीभिरहानि, अर्धमासान्, मासान्, ऋतू्न्। लोकंपृणाभिर्मुहूर्तान्। तद् याः परिश्रितःरात्रिलोकास्ताः। रात्रीणामेव साऽऽप्तिः क्रियते, रात्रीणां प्रतिमा। ताः षष्टिश्च त्रीणि च शतानि भवन्ति। षष्टिश्च ह वै त्रीणि च शतानि सम्वत्सरस्य रात्रयः। तासामेकविंशतिं गार्हपत्य परिश्रयति। द्वाभ्यां नाशीतिं धिष्ण्येषु। द्वे एकषष्टे शते आहवनीये। अथ यजुष्मत्यः। - - - श.ब्रा. १०.४.३.१२

*रात्रिसहस्रेण रात्रिसहस्रेणैकैकां परिश्रितं सम्पन्नामुपासीत। अहःसहस्रेण अहःसहस्रेणैकैकामहर्भाजम्। - श.ब्रा. १०.४.४.४

*सम्वत्सरो ह त्वेवैषोऽग्निश्चितः। तस्य रात्रय एव परिश्रितः। ताः षष्ठिश्च त्रीणि च शतानि भवन्ति। - - -अहानि यजुष्मत्य इष्टकाः। - - श.ब्रा. १०.५.४.१०

*अश्वावयवेषु विराडवयवोपासनं ब्राह्मणम्उषा वा अश्वस्य मेध्यस्य शिरः, - - - -अहोरात्राणि प्रतिष्ठा, - - - अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत। तस्य पूर्वे समुद्रे योनिः। रात्रिरेनं पश्चान्महिमाऽन्वजायत। तस्यापरे समुद्रे योनिः। - श.ब्रा. १०.६.४.१

*आजिं वा एते धावंति, ये दर्शपूर्णमासाभ्यां यजंते। स वै पंचदश वर्षाणि यजेत। तेषां पंचदशानां वर्षाणां त्रीणि च शतानि षष्ठिश्च पौर्णमास्यश्चामावास्याश्च । त्रीणि च वै शतानि षष्ठिश्च संवत्सरस्य रात्रयः, तद्रात्रीराप्नोति। - - - श.ब्रा. ११.१.२.१०

*एते ह वै रात्री सर्वा रात्रयः समवयंति। या आपूर्यमाणपक्षस्य रात्रयः; ताः सर्वाः पौर्णमासीं समवयंति। या अपक्षीयमाणपक्षस्य रात्रयः; ताः सर्वा अमावास्यां समवयंति। - श.ब्रा. ११.१.७.४

*इयमेव पूर्णमाः। पूर्णेव हीयम्। असावेव द्यौर्दर्शः। ददृश इव ह्यसौ द्यौः। रात्रिरेव पूर्णमाः। पूर्णेव हीयं रात्रिः। अहरेव दर्शः। ददृश इव हीदमहः। - - -उदान एव पूर्णमाः। - - प्राण एव दर्शः। - श.ब्रा. ११.२.४.३

*आश्वत्थ्योररण्योरुत्पत्तिख्यापकं ब्राह्मणम् यद्विरूपाऽचरं मर्त्येष्ववसं रात्रीः शरद्श्चतस्रः। घृतस्य स्तोकं सकृदह्न आश्नां ता देवेदं तातृपाणा चरामि इति। तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः प्राहुः। तस्यै ह हृदयमाव्ययाञ्चकार। सा होवाच। संवत्सरतमीं रात्रिमागच्छतात्। तन्म एकां रात्रिमन्ते शयितासे। जात उ तेऽयं तर्हि पुत्रो भवितेति। स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि। - श.ब्रा. ११.५.१.११

*केशी-खाण्डिक संवादते होचुःमा भगवो वोचः। अयं वाव क्षत्त्रियस्य लोक इति। स होवाचवक्ष्याम्येव, अमूर्वै रात्रयो भूयस्य इति। - श.ब्रा. ११.८.४.५

*अध्यात्मविद्ब्राह्मणम् पुरुषो वै संवत्सरः। तस्य पादावेव प्रायणीयोऽतिरात्रः। पादाभ्यां हि प्रयन्ति। तयोर्यच्छुक्लं तदह्नो रूपं। यत्कृष्णं तद्रात्रेः। - - - -श.ब्रा. १२.१.४.१

*अङ्गानि दशरात्रः। मुखं महाव्रतं। हस्तावेवोदयनीयोऽतिरात्रः। हस्ताभ्यां ह्युद्यन्ति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। - - श.ब्रा. १२.१.४.३

*त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयः। त्रीणि च शतानि षष्टिश्च पुरुषस्यास्थीनि। अत्र तत्समम्। त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि। त्रीणि च शतानि षष्टिश्च पुरुषस्य मज्जानः। अत्र तत्समम्। -  -- श.ब्रा. १२.३.२.३

*तदाहुः- यस्याहवनीयमनुद्धृतमादित्योऽभ्यस्तमियात्। - - -तत्रेत्थं कुर्यात्। हरितं हिरण्यं दर्भे प्रबध्य पश्चाद्धर्तवै ब्रूयात्। - - - तदाहुः- यस्याहवनीयमनुद्धृतम् आदित्योऽभ्युदियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। - - - तत्रेत्थं कुर्यात्। रजतं हिरण्यं दर्भे प्रबध्य पुरस्ताद्धर्तवै ब्रूयात्। तच्चंद्रमसो रूपं क्रियते। रात्रिर्वै चंद्रमाः। तद्रात्रे रूपं क्रियते। पवित्रं दर्भाः। - श.ब्रा. १२.४.४.७

*तावश्विनौ च सरस्वती च अपां फेनं वज्रमसिञ्चन्। न शुष्को नार्द्र इति। तेनेंद्रो नमुचेरासुरस्य व्युष्टायां रात्रौ, अनुदित आदित्ये, न दिवा न नक्तमिति शिर उदवासयत्। - श.ब्रा. १२.७.३.३

*सौत्रामणीसोमोऽस्यश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, इन्द्राय सुत्राम्णे पच्यस्व इति। - - -तिस्रो रात्रीर्वसति। तिस्रो हि रात्रीः सोमः क्रीतो वसति। - श.ब्रा. १२.७.३.६

*तदाहुः- प्र वा एतदश्वो मीयते। यत्पराङेति। - - यत्सायं धृतीर्जुहोति। क्षेमो वै धृतिः। क्षेमो रात्रिः। क्षेमेणैवैनं दाधार। - - -यद्वेव सायं धृतीर्जुहोति। प्रातरिष्टिभिर्यजते। योगक्षेममेव तद्यजमानः कल्पयते। - श.ब्रा. १३.१.४.३

*यदुभौ नक्तम्। अपास्माद्ब्रह्मवर्चसं क्रामेत्। क्षत्त्रस्य वा एतद्रूपम्। यद्रात्रिः। न वै क्षत्त्रे ब्रह्मवर्चसं रमत इति। दिवा ब्राह्मणो गायति। नक्तं राजन्यः। तथो हास्य ब्रह्मणा च क्षत्त्रेण चोभयतः श्रीः परिगृहीता भवति इति। अयजतेत्यददातिति ब्राह्मणो गायति। इष्टापूर्तं वै ब्राह्मणस्य। - - -अयुध्यतेत्यमुं संग्राममजयदिति राजन्यः। - श.ब्रा. १३.१.५.५

*अथान्नहोमब्राह्मणम्शतायुर्वै पुरुषः। आत्मैकशतः।आयुष्येवात्मन्प्रतितिष्ठति। व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा इत्युत्तमे आहुती जुहोति। रात्रिर्वै व्युष्टिः। अहः स्वर्गः। अहोरात्रे एव तत्प्रीणाति। - श.ब्रा. १३.२.१.६

*अथ वपाप्रचरणम् वषट्कृते जुहोति-यस्ते रात्रौ संवत्सरे महिमा संबभूव इति। - श.ब्रा. १३.५.३.७

*अथोत्तरो महिमग्रहः-- - -एकविंशः षोडशी। पंचदशी रात्रिः। त्रिवृत्संधिः। - - अतिरात्रो यज्ञः। - - श.ब्रा. १३.५.३.१०, १३.५.४.९, १३.५.४.१०, १३.५.४.२०

*इयं वै पृथिवी प्रतिष्ठा। अस्यामेवैनमेतत् प्रतिष्ठायां प्रतिष्ठापयति। पुराऽऽदित्यस्योदयात्। तिर इव वै पितरः। तिर इव रात्रिः। तिर एव तत् करोति। - श.ब्रा. १३.८.३.२

*प्रवर्ग्यसृष्टिप्रतिपादकं ब्राह्मणम्तिस्रो रात्रीर्व्रतं चरति। त्रयो वा ऋतवः संवत्सरस्य। संवत्सर एषः। य एष तपति। - श.ब्रा. १४.१.१.२८

*तस्य व्रतचर्या। नातपति प्रच्छादयेत। - - - - अवज्योत्य रात्रावश्नीयात्। तदेतस्य रूपं क्रियते। य एष तपति। - श.ब्रा. १४.१.१.३३

*गवाजपयोऽवसेचनं ब्राह्मणम्अथातो रोहिणौ जुहोति। अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा इति। उभावेतेन यजुषा प्रातः। रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा इति। उभावेतेन यजुषा सायम्। - - अग्निश्च ह वा आदित्यश्च रौहिणौ। - - अथो अहोरात्रे वै रौहिणौ। - - - - श.ब्रा. १४.२.१.१

*अथ घर्मप्रचरणम्अथ रौहिणौ जुहोतिअहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा इति। असावेव बंधुः। रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा इति। असावेव बन्धुः। - श.ब्रा. १४.२.२.४१

 

*

*

*

*

*

*

*

*

*

*

*

*

*